Enter your Email Address to subscribe to our newsletters

मंडी, 12 सितंबरमासः (हि.स.)।
हिमाचलप्रदेशस्य मण्डीजनपदस्य धनोटूविकासखण्डस्य कृषिविभागेन आत्मपरियोजनायाः अन्तर्गतं ग्रामपञ्चायत् भयारटायां एकदिवसीया कृषकगोष्ठी आयोजिता। कार्यक्रमे मण्डीजनपदस्य परियोजनानिदेशकः डॉ. राकेशपटियालः, धनोटूविकासखण्डस्य खण्डविकासाधिकारी मनमोहनशर्मा, बल्हविकासखण्डस्य विषयविशेषज्ञः डॉ. विजयचौहानः, उद्यानविकासाधिकारी, पशुपालनविभागस्य अधिकारिणः तथा पञ्चायतप्रतिनिधयः उपस्थिताः आसन्।
गोष्ठ्याः अवधौ विभिन्नविभागानाम् अधिकारिभिः कृषकाः प्राकृतिककृषिं स्वीकर्तुं प्रेरिताः। तेभ्यः प्राकृतिककृषेः लाभानां, कृषिव्ययस्य न्यूनीकरणस्य तथा कृषेः अधिकस्थायित्वपूर्णां कर्तुं उपायानां विषये जानकारी प्रदत्ता। सहैव अधिकारिभिः स्वस्वविभागेषु सञ्चालितानां विभिन्नानां योजनानां कार्यक्रमाणां च विषये जानकारी प्रदाय कृषकेभ्यः तेषां अधिकाधिकं लाभं स्वीकर्तुं आह्वानं कृतम्।
अधिकारिभिः कृषकेभ्यः आग्रहः कृतः यत् ते स्वस्य समीपस्थं लोकमित्रकेन्द्रं गत्वा एग्रीस्टैक्-पोर्टले स्वकीयां कृषकपञ्जीकरणप्रक्रियां अवश्यं सम्पादयेयुः। ते उक्तवन्तः यत् भविष्ये कृषिविभागस्य विभिन्नाभ्यः योजनाभ्यः सुविधाभ्यश्च लाभं प्राप्तुं कृषकपञ्जीकरणं महत्त्वपूर्णं भविष्यति।
अस्मिन् अवसरे कृषकैः कृषिसम्बद्धेषु विभिन्नेषु विषयेषु विभागीयाधिकारिभिः सह चर्चा कृता तथा आवश्यकसूचनाः अपि प्राप्ताः।
---------------
Hindusthan Samachar / Dheeraj Maithani