Enter your Email Address to subscribe to our newsletters

शिमला, 12 सितंबरमासः (हि.स.)।
हिमाचलप्रदेशस्य शिक्षामन्त्री रोहितठाकुरः उक्तवान् यत् राज्ये गुणवत्तापूर्णशिक्षायाः सुनिश्चिततायै शिक्षकाणां स्थानान्तरणनीतेः निर्माणं तेषां निश्चितकार्यकालस्य च निर्धारणम् आवश्यकम् अस्ति। यावत् शिक्षकाणां कार्यकालः निर्धारितः न भविष्यति, तावत् शिक्षाव्यवस्थायां अपेक्षितं सुधारं आनेतुं कठिनं भविष्यति। तेन उक्तं यत् शिक्षाव्यवस्थायां शिक्षकाः सर्वाधिकमहत्त्वपूर्णाः कडिः सन्ति तथा कस्यापि शिक्षाप्रणाल्याः सफलता योग्येषु प्रतिबद्धेषु च शिक्षकेषु निर्भरति।
रोहितठाकुरः शनिवासरे उक्तवान् यत् सा व्यवस्था सीबीएसई भवतु, हिमाचलप्रदेशविद्यालयशिक्षाबोर्डः भवतु, अथवा अटल-राजीवगान्धी-आदर्शविद्यालयाः भवन्तु, प्रत्येकस्यां व्यवस्थायां शिक्षकाणां गुणवत्ता महत्त्वपूर्णा अस्ति। शिक्षकाणां नियुक्तिः योग्यतायाः आधारेण भवितव्या, तेषां नियुक्तिस्थाने स्थानान्तरणे च पारदर्शिता अपि भवितव्या। सर्वकारेण इदं सुनिश्चितं कर्तव्यं यत् योग्याः शिक्षकाः दीर्घकालं यावत् एकस्मिन् स्थाने सेवां दातुं शक्नुयुः। अनेन शिक्षकाणां पुनः पुनः परिवर्तनात् छात्राणां अध्ययनं प्रभावितं न भविष्यति।
शिक्षामन्त्रिणा उक्तं यत् प्रतिवर्षं नूतननियुक्त्या शिक्षाविभागे नूतनं योग्यं च मानवसंसाधनं आगमिष्यति। तेन अधुना एव सीबीएसई-माध्यमेन कृता शिक्षकाणां नियुक्तिः सकारात्मकं पदक्षेपम् इति वर्णिता। तस्य कथनम् आसीत् यत् शिक्षकाणां नियुक्तेः, पदस्थापनस्य कार्यकालस्य च विषये स्पष्टा व्यवस्था शिक्षायाः गुणवत्तायाः सुधारणे सहायकाभविष्यति।
पञ्चदशवर्षेषु सर्वकारीयविद्यालयेषु प्रायः चतुःलक्षं छात्राः न्यूनाः
रोहितठाकुरेण उक्तं यत् विगतेषु पञ्चदशवर्षेषु सर्वकारीयविद्यालयेषु छात्राणां संख्यायां प्रायः चतुःलक्षं न्यूनता अभवत्। अस्याः न्यूनतायाः बहवः कारणानि भवितुमर्हन्ति, येषु समयानुसारं शिक्षाव्यवस्थायां परिवर्तनस्य अभावः अपि एकं कारणम् अस्ति। तेन उक्तं यत् अधुना विद्यालयाः महाविद्यालयाश्च जनानां परिवर्तमानानां आवश्यकतानां रोजगारस्य च मागानुसारं सज्जीकर्तव्याः।
तेन उक्तं यत् आगामिकाले उद्योगेषु केषु क्षेत्रेषु अधिकाः रोजगारावसराः भविष्यन्ति इति विषये सर्वकारेण अध्ययनं करणीयम्। ततः तस्याः आवश्यकतायाः अनुरूपं पाठ्यक्रमाः निर्मातव्याः। शिक्षायाः रोजगारस्य च मध्ये सम्बन्धस्थापनं समयस्य आवश्यकता अस्ति। छात्रेभ्यः एतादृशी शिक्षा दातव्या या तान् उच्चतराध्ययनस्य सह रोजगारस्य परिवर्तमानानाम् आवश्यकतानाम् अपि कृते सज्जान् करिष्यति।
शिक्षामन्त्रिणा उक्तं यत् हिमाचलप्रदेशे शिक्षक-छात्रानुपातः देशस्य तुलनया उत्तमः अस्ति। राज्ये औसतेन दशसु छात्रेषु एकः शिक्षकः अस्ति, यदा तु लाहौल-स्पीति-प्रदेशे त्रिषु छात्रेषु एकः शिक्षकः अस्ति। तथापि कतिपयेषु दुर्गमक्षेत्रेषु अद्यापि शिक्षकाणां अन्यकर्मचारिणां च न्यूनता वर्तते। एतेषां क्षेत्राणां आवश्यकतां दृष्ट्वा व्यवस्थां सुदृढीकर्तुं आवश्यकता अस्ति।
प्राथमिकशिक्षकाणाम् आन्दोलनविषये सर्वकारेण मन्थनम्
प्राथमिकशिक्षकसङ्घस्य आन्दोलनस्य विषये रोहितठाकुरेण उक्तं यत् सर्वकारः शिक्षकाणां मागानां सुझावानां च विषये मन्थनं करोति। मुख्यमन्त्रिणा अपि अस्मिन् विषये वार्ता कृता अस्ति। तेन उक्तं यत् शिक्षकाणां पक्षतः प्राप्तानां सकारात्मकसुझावानां सर्वकारः स्वागतं करिष्यति।
तेन स्पष्टं कृतं यत् कस्यापि शिक्षकस्य पदं समाप्तं न करिष्यते तथा शिक्षकाणां पदोन्नतेः अवसराः अपि समाप्ताः न भविष्यन्ति। सर्वकारः शिक्षाव्यवस्थायाः सुधारेण सह शिक्षकसम्बद्धानां विषयाणाम् अपि विचारं करोति।
---------------
Hindusthan Samachar / Dheeraj Maithani