Enter your Email Address to subscribe to our newsletters

नैनीतालम्, १२ सेप्टेम्बरमासः (हि.स.)। अग्रिमे २९ सेप्टेम्बर-दिनाङ्के प्रस्तावितस्य छात्रसङ्घनिर्वाचनस्य दृष्ट्या कुमाऊँ-विश्वविद्यालयस्य समर्थ-पटले पूर्वं पञ्जीकृतानां स्नातक-स्नातकोत्तर-विद्यार्थिनां प्रवेशप्रक्रियां पूर्णां कर्तुं १४ सेप्टेम्बर २०२६ दिनाङ्कस्य सायं ६ वादनपर्यन्तम् अन्तिमः अवसरः प्रदत्तः अस्ति।
समर्थ-पटलस्य प्रभारी अवदत् यत् विश्वविद्यालयेन सम्बद्धेभ्यः सर्वेभ्यः महाविद्यालयेभ्यः लम्बितां प्रवेशप्रक्रियां समये पूर्णां कारयितुं निर्देशाः प्रदत्ताः सन्ति। तथैव विद्यार्थिभ्यः अपि आह्वानं कृतं यत् ते अन्तिमदिनाङ्कस्य समयस्य च ध्यानं कृत्वा प्रवेशप्रक्रियां पूर्णां कुर्वन्तु, येन अग्रिमे छात्रसङ्घनिर्वाचने कस्यापि प्रकारस्य असुविधा न भवेत्।
Hindusthan Samachar / Divya Ranjan