Enter your Email Address to subscribe to our newsletters

नवीनटिहरी, १२ सेप्टेम्बरमासः (हि.स.)। बालानां महिलानां च कुपोषणात् रक्षणाय तथा पौष्टिकाहारस्य विषये जागरूकतां जनयितुं बालविकासपरियोजना कीर्ति-नगरस्य अन्तर्गतं पोषणमासस्य अवसरॆ ८ अक्तूबरपर्यन्तं विशेषं जागरूकताकार्यक्रमं आयोजितम्। एतत् अभियानं ९ सेप्टेम्बरमासात् आरभ्यते। अस्य मुख्यविषयः ‘अस्माकम् आङ्गनवाडी-केन्द्रम्, अस्माकं दायित्वम्’ इति निर्धारितः अस्ति।
अत्र आयोजिते कार्यक्रमे ‘अस्माकम् आहारे स्थानीयोत्पादैः प्राप्यमाणं प्रोटीन’ इति विषये विस्तरेण चर्चा कृता। वक्तारः अवदन् यत् पोषणं केवलं महार्घेषु खाद्यपदार्थेषु सीमितं नास्ति, अपितु अस्माकं पार्श्वे उपलब्धाः स्थानीयाः उत्पादाः अपि प्रोटीनस्य पोषकतत्त्वानां च महत्त्वपूर्णाः स्रोतांसि सन्ति। स्थानीयधान्यानि, दालाः, दुग्धं दुग्धोत्पादाश्च तथा अन्ये पारम्परिकाः खाद्यपदार्थाः नियमिताहारस्य भागान् कृत्वा बालानां महिलानां च पोषणस्तरं सुधारयितुं शक्यते।
जनपदकार्यक्रमाधिकारी सञ्जयगौरवः आङ्गनवाडीकेन्द्राणां भूमिकां रेखाङ्कि-तवान्। सः अवदत् यत् आङ्गनवाडी केवलं बालानां ध्यानस्य केन्द्रं न, अपितु स्वस्थपरिवारस्य सुदृढसमाजस्य च आधारशिला अस्ति। परियोजनाधिकारी नीतू बधानी स्थानीयखाद्यपदार्थानां महत्त्वं सन्तुलिताहारस्य च विषये जागरूकता-सन्देशं प्रदत्तवती।
अस्मिन् अवसरे क्षेत्रीयपर्यवेक्षकाः ललिताधनाई, मञ्जुजोशी, प्रिन्सानेगी, सुमित्रादेवी, नवीनभट्टः, मुकेशमैठानी, नीलम, प्रकाशी, सुभाषी च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan