Enter your Email Address to subscribe to our newsletters

रविवासरे सहभागं करिष्यति मुख्यमन्त्री योगी आदित्यनाथः
रायबरेली, १२ सेप्टेम्बरमासः (हि.स.)। उत्तरप्रदेशस्य रायबरेलीजनपदे श्रीशिव-महापुराणकथायाः द्वितीयदिने प्रसिद्धः कथावाचकः पण्डितप्रदीपमिश्रः अवदत् यत् अभिभावकाः स्वबालकेभ्यः कारयानानि न, अपितु सुसंस्कारान् दद्युः। तेन उक्तं यत् यदि बालकेभ्यः संस्काराः दीयन्ते तर्हि ते स्वयमेव कारयानानां पङ्क्तिं स्थापयिष्यन्ति। पण्डितप्रदीपमिश्रेण राय-बरेलीजनपदस्य इटौराबुजुर्गे आयोज्य-मानायां कथायां द्वितीयदिने एतद् उक्तम्।
पण्डितप्रदीपमिश्रेण दिल्ली इत्यत्र जेन-जी-प्रदर्शने प्रधानमन्त्री नरेन्द्रमोदिनं प्रति कथितदुर्व्यवहारस्य सन्दर्भे युवानां संस्काराणां विषये प्रश्नाः उत्थापिताः। तेन उक्तं यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना सह कस्यापि जनस्य प्रति अपशब्दप्रयोगः सुसंस्कारस्य लक्षणं न भवितुम् अर्हति।
पण्डितप्रदीपमिश्रः अवदत्— “अद्य पश्यन्तु, किं भवति? कुत्रचित् अस्माकं बालकाः संस्कारेभ्यः दूरं गच्छन्ति। कियद्दिनपूर्वं वयं दिल्ली इत्यस्य दृश्यं दृष्टवन्तः। कीदृशाः संस्काराः आसन्? प्रधानमन्त्री नरेन्द्र-भ्रातरि मोदी तथा श्रेष्ठजनेषु अपशब्दाः प्रयुज्यन्ते स्म। किं एतान् संस्कारान् वदामः?”
आचार्यः अवदत् यत् माता प्रथमगुरुः, पिता द्वितीयगुरुः, शिक्षकः तृतीयगुरुः च भवति। चतुर्थगुरुः सद्गुरुः भवति, यस्मात् दीक्षा गृह्यते। माता बाल्यावस्थायां बालकस्य जीवनं संस्कारयति, पिता तारुण्ये मार्गदर्शनं करोति, शिक्षकः भविष्यं सुधारयति, सद्गुरुः च लोकं परलोकं च सुधारयति।
तेन उक्तं यत् बालकान् पाठयत, सम्यक् पाठयत, यतः शिक्षायाः विना सर्वम् अधूरं भवति। किन्तु एकं तथ्यं स्मर्तव्यं यत् संस्काराः अत्यन्तम् आवश्यकाः सन्ति। यदि बालकेभ्यः सुसंस्काराः न प्राप्यन्ते तर्हि शिक्षायाः अपि पूर्णः लाभः न भवति। संस्कारैरेव जीवनं सफलं भवितुं शक्नोति।
कथास्थले विशालः जनसमूहः समागतः। अद्य नगरविकास-ऊर्जामन्त्री एकेशर्मा, जनसत्तादलस्य राष्ट्रियाध्यक्षः विधायकः रघुराजप्रतापसिंहः ‘राजाभैया’ इत्यादयः अनेके वरिष्ठनेतारः अधिकारिणश्च कथायां सहभागं कृतवन्तः। आयोजकमन्त्री मनोजपाण्डे सर्वेषां स्वागतं कृतवान्
उल्लेखनीयं यत् ११ सेप्टेम्बरमासात् प्रारब्धायां सप्तदिवसीयकथायां रविवासरे मुख्यमन्त्रिण: योगी आदित्यनाथस्य आगमनस्य कार्यक्रमः अस्ति। तदतिरिक्तं १४ सेप्टेम्बरमासे राज्यपालः आनन्दी-बेनपटेलः, १५ सेप्टेम्बरमासे तेलङ्गाना-राज्यपालः शिवप्रतापशुक्लः, १६ सेप्टेम्बर-मासे जम्मू-कश्मीरस्य उपराज्यपालः मनोजसिन्हा च कथायां सहभागं करिष्यन्ति।
Hindusthan Samachar / Divya Ranjan