Enter your Email Address to subscribe to our newsletters

लखनऊ, १२ सेप्टेम्बरमासः (हि.स.)। भारतीयजनतापक्षस्य प्रदेशाध्यक्षः केन्द्रीयवित्तराज्यमन्त्री च पङ्कजचौधरी अवदत् यत् प्रधानमन्त्रिण: नरेन्द्रमोदिनः सार्वजनिकजीवने सेवायाः, सुशासनस्य राष्ट्रनिर्माणस्य च २५ वर्षाणां पूर्तेः अवसरस्य उपलक्ष्ये भारतीयजनतापक्षः उत्तरप्रदेशे १७ सेप्टेम्बरतः १७ अक्तूबरपर्यन्तं ‘सेवासङ्कल्पाभियानं’ चालयिष्यति।
“जनसेवैव प्रभुसेवा” इति मूलभावेन आयोजितस्य अस्य अभियानस्य उद्देश्यं प्रधानमन्त्रिणः २५ वर्षाणां सेवायात्रां, केन्द्र-प्रदेशसर्वकारयोः जनकल्याण-कारीयोजनाः, तेषां प्रमुखनिर्णयान् उपलब्धीश्च जनं जनं प्रति प्रापयितुम् अस्ति। अभियानस्य माध्यमेन यून: नूतनमतदातारश्च ‘विकसित-भारत-२०४७’ इति सङ्कल्पेन सह संयोजयितुम् अपि प्रयासः क्रियते। सः अवदत् यत् अन्त्योदयस्य, राष्ट्रप्रथमस्य सुशासनस्य च भावनां शासनस्य संस्कृतिं कृत्वा समाजस्य अन्तिमव्यक्तिं प्रति प्रापयितुं भाजपा प्रमुखलक्ष्यम् अस्ति।
चौधरी प्रदेशभाजपामुख्यालये शनिवासरे आयोजितायां वार्ताहरसम्मेलने अवदत् यत् २००१ तमे वर्षे गुजरातस्य मुख्यमन्त्रिरूपेण दायित्वग्रहणात् आरभ्य २०१४ तमे वर्षे प्रधानमन्त्रिपदं प्राप्तिपर्यन्तं नरेन्द्रमोदी शासनव्यवस्थायां निर्णयप्रक्रियायाः गतिवर्धने, जनसहभागितायाः वर्धने योजनानां लाभं समाजस्य अन्तिमव्यक्तिं प्रति प्रापयितुं च बलं दत्तवान्।
सः अवदत् यत् प्रधानमन्त्रिणः नेतृत्वे केन्द्रसर्वकारेण अनेके ऐतिहासिकाः निर्णयाः स्वीकृताः। तेषु जीएसटी-सुधारः, अनुच्छेद-३७०-सम्बद्धेषु संवैधानिक-प्रावधानेषु परिवर्तनम्, अङ्कीय-अर्थव्यवस्थायाः प्रोत्साहनम् अनावश्यक-विधीनां च उन्मूलनं प्रमुखम् अस्ति। एतेषां निर्णयानां माध्यमेन देशस्य अर्थव्यवस्थायां, प्रशासनिकव्यवस्थायां सामाजिकजीवने च व्यापकपरिवर्तनस्य दिशा निर्मिता।
पङ्कजचौधरी अवदत् यत् प्रधानमन्त्रिणः नेतृत्वे दरिद्रकल्याणं शासनस्य प्राथमिकता कृता अस्ति। गैसचुल्ली, नलिकामार्गेण जलम्, स्वकीयगृहम्, निःशुल्कचिकित्सा, सम्मानजनक-जीविकोपार्जनम् इत्यादिनां प्रयासानां माध्यमेन दरिद्रान् कृषकान् महिलाः वञ्चितवर्गांश्च सशक्तान् कर्तुं कार्यं कृतम्। आयुष्मानभारत्, प्रधानमन्त्री-आवासयोजना, उज्ज्वलायोजना, जल-जीवनमिशन, पीएम-किसान-सम्मान-निधिः इत्यादीनां योजनानां माध्यमेन कोटिशः जनानां समीपं सर्वकारीय-सहायता प्रापिता।
‘आशीर्वादस्य दीपः’ कार्यक्रमेण अभियानस्य शुभारम्भः
पङ्कजचौधरी अवदत् यत् अभियानस्य शुभारम्भः १७ सेप्टेम्बरदिनाङ्के ‘आशीर्वादस्य दीपः’ कार्यक्रमेण भविष्यति। अस्य अन्तर्गतं मतदानकेन्द्रस्तरे दीप-प्रज्वलनं कृत्वा लाभार्थिभिः प्रधानमन्त्रिणः प्रति कृतज्ञता व्यक्ती-करिष्यते। विद्यालयेषु ‘मम स्वप्नानां भारतम्—चित्रसेवा’ इत्यन्तर्गतं प्रधान-मन्त्रिणः २५ वर्षाणां सेवाकार्यं तथा ‘विकसितभारत-२०४७’ इति विषयमधिकृत्य चित्रकलाभाषण-प्रति-योगिताः आयोजिताः भविष्यन्ति।
‘नमोसेवा-अनुक्तकथाः’ इत्यस्य मञ्चनं भविष्यति
सः अवदत् यत् १८ सेप्टेम्बरतः १५ अक्तूबरपर्यन्तं ‘नमोसेवा-अनुक्तकथाः’ इत्यन्तर्गतं प्रदेशे ३,२४२ वीथिनाटकानां मञ्चनं भविष्यति। एतेषां नाटकानां माध्यमेन सर्वकारीययोजनाभिः लाभान्वितानां जनानां कथाः प्रधान-मन्त्रिणः सेवाकार्याणि च सामान्यजनान् प्रति प्रापयिष्यन्ते।
२५ सितम्बरतः ७ अक्तूबरपर्यन्तं ‘आङ्गणमिलनसेवा’ इत्यन्तर्गतं आङ्गन-वाडीकर्मचारिणाम् आशाकार्यकर्तॄणां च सम्मानः पोषणजागरूकताकार्यक्रमाश्च आयोजिताः भविष्यन्ति। ‘सेवायाः कथा’ इत्यस्य माध्यमेन प्रत्येकस्मात् शक्तिकेन्द्रात् लाभार्थिनां १० चलच्चित्रखण्डाः निर्माय सामाजिक-माध्यमेषु सहभागं करिष्यन्ते। चयनिताः चलच्चित्रखण्डाः पक्षस्य वरिष्ठनेतृभिः, मन्त्रिभिः, सांसदैः विधायकैश्च स्वकीयसामाजिकमाध्यम-माध्यमेभ्यः अपि प्रसारिताः भविष्यन्ति।
०७ अक्तूबरदिनाङ्के ‘सेवाज्योति-कलशयात्रा’ आयोजिता भविष्यति
भाजपाप्रदेशाध्यक्षः अवदत् यत् ०७ अक्तूबरदिनाङ्के ‘सेवाज्योतिकलशयात्रा’ इत्यन्तर्गतं ग्रामेभ्यः जनपदमुख्यालय-पर्यन्तं मशालयात्रा-रथयात्रा च आयोजिता भविष्यति तथा ‘विकसितभारत-२०४७’ इति सामूहिकसङ्कल्पः स्वीकरिष्यते। अपरत्र वडनगरतः वाराणसीपर्यन्तं ‘सेवायात्रा’ आयोजिता भविष्यति, यस्यां प्रायः २५० द्विचक्रिकायात्रिकाः सम्मिलिताः भविष्यन्ति। अस्यां यात्रायां उभयोः स्थानयोः पवित्रजलस्य आदानप्रदानं मन्दिरेषु जलाभिषेकश्च करिष्यते।
सः अवदत् यत् ‘सेवा मम योगदानम्’ इत्यन्तर्गतं १७ सितम्बरतः १७ अक्तूबरपर्यन्तं स्वच्छता, रक्तदानं, वृक्षारोपणम् इत्यादिषु विविधासु सेवागतिविधिषु नागरिकाणां सहभागिता सुनिश्चिता करिष्यते। ‘सेवायाः वर्णाः, राष्ट्रेण सह’ इत्यन्तर्गतं विभिन्नस्तरेषु पर्यावरणानुकूलरङ्गोली-मानवरङ्गोल्योश्च आयोजनं भविष्यति। अभियानं प्रदेशस्य १,७७,५१६ मतदानकेन्द्रेषु प्रापयितुं सङ्कल्पः कृतः अस्ति। अभियाने पक्षस्य प्रदेशपदाधिकारिणां, मन्त्रिणां, सांसदानां, विधायकानां, जनप्रतिनिधीनां कार्यकर्तॄणां च विशेषसहभागिता भविष्यति। वार्ताहरसम्मेलने उत्तरप्रदेशस्य उच्चशिक्षामन्त्री योगेन्द्र उपाध्यायः तथा प्रदेशमहामन्त्री अभियानस्य प्रदेश-संयोजकश्च राजेशचौधरी उपस्थितौ आस्ताम्।
Hindusthan Samachar / Divya Ranjan