Enter your Email Address to subscribe to our newsletters


गोरखपुरम्, १२ सेप्टेम्बरमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसङ्घस्य गोरखपुर-महानगरस्य दक्षिणीभागस्य तत्त्वावधाने पक्कीबागस्थिते सरस्वती-शिशुमन्दिरे युवासम्मेलनस्य आयोजनम् अभवत्। सम्मेलने बहुसंख्यकैः युवा-स्वयंसेवकैः सहभागिता कृता।
कार्यक्रमस्य मुख्यवक्ता राष्ट्रीयस्वयं-सेवकसङ्घस्य गोरक्षप्रान्तस्य प्रान्त-प्रचारकः रमेशजी युवानः राष्ट्रनिर्माणे सक्रियभूमिकां निर्वोढुं प्रेरितवान्। सः अवदत् यत् देशस्य प्रगतौ समाजस्य सकारात्मकपरिवर्तने च यूनां भूमिका अत्यन्तं महत्त्वपूर्णा अस्ति। युवसु अनुशासनस्य, सङ्गठनस्य, राष्ट्रभक्तेः समाजं प्रति उत्तरदायित्वभावस्य च विकासः आवश्यकः अस्ति।
सः अवदत् यत् राष्ट्रीयस्वयंसेवकसङ्घः यूनां व्यक्तित्वनिर्माणेन सह तान् राष्ट्रं समाजं च प्रति समर्पितभावेन कार्यं कर्तुं प्रेरयति। युवाशक्तिः यदि सङ्गठिता भूत्वा सकारात्मकदिशायां अग्रे वर्धेत्, तर्हि सा देशं नूतनान् शिखरान् प्रति नेतुं महत्त्वपूर्णं योगदानं दातुं शक्नोति।
कार्यक्रमे मञ्चे सहभागसङ्घचालकः राजारामजी अपि उपस्थितः आसीत्। सम्मेलने युवभिः सङ्घस्य विचारान् कार्यपद्धतिं च अवगतम् तथा राष्ट्रहिते सक्रिययोगदानस्य सङ्कल्पः स्वीकृतः।
Hindusthan Samachar / Divya Ranjan