Enter your Email Address to subscribe to our newsletters

खड़गपुरम्, 12 सितंबरमासः (हि.स.)।
राज्यस्य पश्चाद्वर्तीक्षेत्रेषु विकासकार्याणां गतिं वर्धयितुं तथा सर्वकारीययोजनानां लाभं सामान्यजनानां समीपं शीघ्रं प्रापयितुं उद्दिश्य शुक्रवासरे सायंकाले साल्टलेकस्थिते आईएलजीयूएस्-भवने महत्त्वपूर्णा समीक्षाबैठकं सम्पन्नम्। ग्रामीणविकासमन्त्री दिलीपघोषस्य उपस्थितौ राज्यस्य शतविशेषखण्डानां खण्डविकासाधिकारिभिः सह विकासकार्याणां विस्तृतरूपेण समीक्षा कृता।
बैठकायां तेषु खण्डेषु विशेषं ध्यानं दत्तं ये विविधमूलभूतसुविधासु विकासमानकेषु च अपेक्षया पश्चाद्वर्तिनः सन्ति। अस्मिन् क्रमे खण्डविकासाधिकारिभिः प्रशासनिकस्तरे सम्मुखीभूतानां समस्याणां विकासकार्येषु जायमानस्य विलम्बस्य च विषये सूचना प्रदत्ता। मन्त्रिणा कार्यस्य गतिं वर्धयितुं मार्गे विद्यमानानां बाधानां निवारणाय आवश्यकपदानि स्वीकर्तुं बलं दत्तम्।
दिलीपघोषेण उक्तं यत् ग्रामीणपञ्चायतव्यवस्थायाः माध्यमेन प्रत्येकं सर्वकारीयसेवा कस्यापि बाधायाः विलम्बस्य वा विना सामान्यजनानां समीपं प्राप्नुयात्। तेन अधिकारिभ्यः कर्मचारिभ्यश्च योजनानां कार्यान्वयने शीघ्रतां कर्तुं तथा आवश्यकताग्रस्तानां जनानां प्राथमिकतया सेवां कर्तुम् आह्वानं कृतम्।
बैठकायां पश्चाद्वर्तीक्षेत्राणां प्राथमिकताक्रमेण विकासे, प्रशासनिककार्यप्रणाल्याः सुधारणे तथा ग्रामीणजनसमुदायं प्रति सर्वकारीयसुविधानां प्राप्तिं सुनिश्चितं कर्तुं च बलं दत्तम्। सर्वकारस्य पक्षतः स्पष्टं कृतं यत् विकासस्य मुख्यधारातः पश्चाद्वर्तिनां क्षेत्राणां समाजस्य वञ्चितवर्गाणां च समीपं योजनानां लाभं प्रापयितुं प्राथमिकता अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani