Enter your Email Address to subscribe to our newsletters

नवदिल्ली/देहरादूनम्, १२ सेप्टेम्बरमासः (हि.स.)। उत्तराखण्डस्य मन्त्रिमण्डलस्य मन्त्री डॉ. धनसिंहरावतः शनिवासरे नवदिल्ली इत्यत्र केन्द्रीयगृहमन्त्रिणा सहकारितामन्त्रिणा च अमितशाहेन सह शिष्टाचारमिलनं कृतवान्। अस्मिन् अवसरे उभयोः नेत्र्योः मध्ये उत्तराखण्डे सहकारिताक्षेत्रस्य सुदृढीकरणेन सह विविधविषयेषु चर्चा अभवत्।
डॉ. रावतः केन्द्रीयमन्त्रिणे राज्ये सहकारितामाध्यमेन ग्रामीणार्थव्यवस्थां सुदृढां कर्तुं तथा कृषकाणां, महिलानां, ग्रामीणयूनां च आर्थिकसशक्तीकरणाय सञ्चालितानां योजनानां विषये सूचनां दत्तवान्। तेन अद्यतनसम्पन्नेषु जनपदसहकारीधनागाराणां निर्वाचनेषु भाजपाप्रत्याशिनां सफलतायाः विषये तथा सहकारिसंस्थासु महिलानां सहभागितां सुनिश्चितं कर्तुं प्रवर्तितस्य ३३ प्रतिशतं आरक्षणस्य विषये अपि सूचितम्।
तेन दीनदयाल-उपाध्याय-सहकारिता-कृषककल्याणयोजनायाः, मुख्यमन्त्री घस्यारी-कल्याणयोजनायाः, मिलेट्स-अभियानस्य च प्रगतेः विषये केन्द्रीयमन्त्री अवबोधितः। डॉ. रावतः अवदत् यत् एतासां योजनानां माध्यमेन कृषकाणाम् आयं वर्धयितुं, पशुधनाधारितां ग्रामीणार्थ-व्यवस्थां सुदृढां कर्तुं, ग्रामीणजीविकायाः अवसरान् वर्धयितुं तथा मिलेट्स-उत्पादनं प्रोत्साहितुं प्रयासाः क्रियन्ते।
सभायां रुद्रप्रयागे, बागेश्वरे, चम्पावते च जनपदसहकारीधनागाराणां सञ्चालन-सम्बद्धाः विषयाः तथा सहकारिताक्षेत्रस्य अधिकसुदृढीकरण-सम्बद्धाः विषयाः अपि प्रस्तुताः।
डॉ. रावतस्य अनुसारं केन्द्रीयगृहमन्त्री सहकारितामन्त्री च अमितशाहः उत्तराखण्डे सहकारितान्दोलनस्य विस्तारस्य तथा नवाचाराणां प्रशंसां कृतवान्। सहकारिता-निर्वाचनेषु भाजपादलेन प्राप्तायाः सफलतायाः कृते डॉ. रावतस्य नेतृत्वस्य अपि तेन प्रशंसा कृता।
Hindusthan Samachar / Divya Ranjan