Enter your Email Address to subscribe to our newsletters

देवरिया, १२ सेप्टेम्बरमासः (हि.स.)। भगवान् विश्वकर्मणः सृजनस्य, श्रमस्य, कौशलस्य निर्माणस्य च प्रेरणां उद्यमितया, जनसहभागितया सांस्कृतिकनवाचारैश्च सह संयोजयितुं रविवासरे भगवत: विश्वकर्मा-नवसृजनमहोत्सवस्य आयोजनं करिष्यते।
एतां सूचनां सांसदः शशाङ्कमणिः शनिवासरे पत्रकारवार्तायां दत्तवान्। सः अवदत् यत् बरपारस्थे जागृति-उद्यमकेन्द्रस्य प्रेक्षास्थले अपराह्णे त्रिवादने आयोज्यमानः अयं महोत्सवः देवरिया-लोकसभाक्षेत्रे अमृतप्रयासस्य द्वितीय-संकल्पस्य शुभारम्भं करिष्यति। सांसदस्य शशाङ्कमणेः प्रयासेन आयोज्यमानेन कार्यक्रमेन देवरिया-कुशीनगराभ्यां देशव्यापिनी उद्यमितायाः, स्वावलम्बनस्य जनसहभागितायाश्च नूतनचेतनां जागरयितुं संकल्पः स्वीक्रियते।
सः अवदत् यत् महोत्सवे भगवान् विश्वकर्मणः प्रेरणया सृजनस्य तिसृणां धाराणां प्रवर्धनस्य प्रयासः भविष्यति। प्रथमधारा आस्था-संस्कृत्योः भविष्यति। निर्माणदेवस्य भगवत: विश्वकर्मणः मन्दिरस्य भूमिपूजनस्य साथमेव आस्थां सृजनशक्त्या संयोजयितुं सन्देशः प्रदास्यते। ‘अर्पणम्’ इत्यस्य माध्यमेन सांस्कृतिकनवाचारान् भारतीयपरम्पराश्च नूतनवंशेन सह संयोजयितुं प्रयासः भविष्यति।
द्वितीयधारायाः अन्तर्गतं अमृतप्रयास-संकल्प-द्वितीयस्य शुभारम्भः करिष्यते। अस्य उद्देश्यम् यूनां महिलानां च प्रतिभां, कौशलं ऊर्जां च उद्यमितया सह संयोजयितुम् अस्ति, येन ते रोजगारस्य याचकाः न भूत्वा रोजगारदातारः भवन्तु। अस्य कृते स्थानीयस्तरे उपलब्धानां संसाधनानां प्रतिभानां च कृते अवसरप्रदानस्य विषये विशेषं बलं दीयते।
सः अवदत् यत् तृतीया धारा ‘वटवृक्षक्रान्तेः’ भविष्यति। अस्याः अन्तर्गतं बरपारस्थस्य विशालस्य वटवृक्षस्य समीपात् नव-सृजनस्य स्फुलिङ्गं देवरियातः पूर्वाञ्चलं, उत्तरप्रदेशं सम्पूर्णं च देशं प्रति प्रेषयितुं संकल्पः स्वीक्रियते। विचारमन्थने उद्यमितायाः माध्यमेन आर्थिकं सामाजिकं च परिवर्तनं ग्रामेषु यावत् नेतुं विषये चर्चा भविष्यति।
सः अवदत् यत् महोत्सवे स्थानीयाः उद्यमिनः, नवाचारं कुर्वन्तः युवानः तथा सामाजिकक्षेत्रे उल्लेखनीयं कार्यं कृतवन्तः जनाः सम्मानिताः भविष्यन्ति। आयोज-कानाम् अनुसारं कार्यक्रमस्य मूलोद्देश्यम् आस्थां सृजनेन, सृजनम् उद्यमितया, उद्यमितां च स्वावलम्बनेन समृद्ध्या च संयोजयितुम् अस्ति।
सांसदः शशाङ्कमणिः अवदत् यत् भगवान् विश्वकर्मा केवलम् आस्थायाः प्रतीकः न, अपि तु सृजनस्य, श्रमस्य, कौशलस्य, संस्कृतेः निर्माणस्य च भारतीयपरम्परायाः प्रतीकः अस्ति। अस्याः प्रेरणायाः युवभिः ग्रामाणां प्रतिभाभिश्च सह संयोजनं कृत्वा उद्यमितायाः रोजगारस्य च शक्तिरूपेण विकसितुं प्रयासः क्रियते। सः अवदत् यत् ‘सर्वेषां प्रयासेन विकसितदेवरिया-लोकसभा’ इति संकल्पः तदैव पूर्णः भविष्यति, यदा ग्रामाणां प्रतिभाभ्यः अवसरः युवभ्यश्च उद्यमितायाः मञ्चः प्राप्स्यते।
सः अवदत् यत् वटवृक्षक्रान्तेः विचारः अस्य विश्वासस्य आधारे स्थितः अस्ति यत् लघु: अपि स्फुलिङ्गं महापरिवर्तनस्य आधारं भवितुम् अर्हति। देवरियातः प्रारभ्यमाण: अयं प्रयासः गोरक्षप्रान्तस्य दशसु जनपदेषु गत्वा देशे सर्वत्र उद्यमितायाः, स्वाव-लम्बनस्य जनसहभागितायाश्च नूतन-चेतनां जनयतु—इत्येव महोत्सवस्य व्यापकम् उद्देश्यम् अस्ति। कार्यक्रमे भगवत: विश्वकर्मणः मन्दिरस्य भूमि-पूजनम्, ‘अर्पणम्’ इति सांस्कृतिकप्रस्तुतिः, अमृतप्रयास-संकल्प-द्वितीयस्य शुभारम्भः, वटवृक्षक्रान्तेः विचारमन्थनं तथा स्थानीयानाम् उद्यमिनां नवाचारकर्तॄणां च सम्मानं प्रमुखम् आकर्षणानि भविष्यन्ति।
Hindusthan Samachar / Divya Ranjan