उत्तरप्रदेशप्रधानाचार्यपरिषद: लखनऊ-एककस्य पुनर्गठनम्, डॉ. लालप्रतापसिंहः जनपदाध्यक्षः निर्वाचितः
प्रधानाचार्यपरिषदः लखनऊ-एककस्य पुनर्गठनार्थं एमकेएसडी-अन्तरमहा-विद्यालये, पेपरमिल्-कालोनी, निशात-गञ्जे, लखनऊनगरे प्रधानाचार्याणां विस्तृतसभा आयोजिता। अस्यां सभायां परिषदः प्रान्तीयनेतृत्वस्य निर्देशानुसारं सर्वसम्मत्या लखनऊजनपदस्य कार्यकारिणी गठिता
उत्तर प्रदेश प्रधानाचार्य परिषद की लखनउ इकाई का पुनर्गठन के आयोजित बेठक में प्रधानाचार्य


प्रधानाचार्यपरिषदः लखनऊ-एककस्य पुनर्गठनार्थं एमकेएसडी-अन्तरमहा-विद्यालये, पेपरमिल्-कालोनी, निशात-गञ्जे, लखनऊनगरे प्रधानाचार्याणां विस्तृतसभा आयोजिता। अस्यां सभायां परिषदः प्रान्तीयनेतृत्वस्य निर्देशानुसारं सर्वसम्मत्या लखनऊजनपदस्य कार्यकारिणी गठिता।

परिषदः प्रान्तीयमन्त्री डॉ. रामबहादुरसिंहः शनिवासरे अवदत् यत् सभायां डॉ. लालप्रतापसिंहः जनपदाध्यक्षरूपेण निर्वाचितः। उपाध्यक्षपदयोः डॉ. ओंकारनाथमिश्रः डॉ. रीताटण्डनश्च निर्वाचितौ। तथैव जनपदमन्त्रिपदयोः डॉ. गजेन्द्रकुमारमिश्रः डॉ. उर्मिलासिंहश्च, संयुक्तमन्त्रिपदयोः डॉ. शिवकुमारयादवः डॉ. हरगोविन्दमिश्रश्च निर्वाचिताः।

तथैव कोषाध्यक्षपदे डॉ. राधामोहनमिश्रः, आयव्ययनिरीक्षकपदे वीरेन्द्रप्रसादलेखवारः, माध्यमप्रभारीपदे डॉ. लीनामिश्रा, क्षेत्रीयमन्त्रिपदे निशा-श्रीवास्तवः, प्रीतिकटियारः, दिव्या-श्रीवास्तवः, शशिबाला, प्रमोदतिवारी, अनिलकुमारवर्मा, राजकुमारसिंहः, राजनद्विवेदी तथा अर्चनापाठकश्च निर्वाचिताः।

सः अग्रे अवदत् यत् जनपदकार्यकारिण्यां सदस्यरूपेण अरुणकुमारः सूर्यबालाश्च समाविष्टौ।

उत्तरप्रदेशप्रधानाचार्यपरिषदः प्रान्तीयमन्त्री डॉ. रामबहादुरसिंहः अवदत् यत् नवनिर्वाचिताध्यक्षः मन्त्री च सङ्गठनस्य सुदृढीकरणाय, प्रधानाचार्याणां न्यायोचित-याचनानां समस्यां च समाधातुं तथा शैक्षिकवातावरणं अधिकं श्रेष्ठं कर्तुं सङ्कल्पं कृतवन्तौ।

अस्मिन् अवसरे उत्तरप्रदेशप्रधानाचार्य-परिषदः संरक्षकः डॉक्टर (मेजर) जेपीमिश्रः तथा प्रान्तीयमन्त्री डॉ. रामबहादुरसिंहः विशेषरूपेण उपस्थितौ आस्ताम्।

Hindusthan Samachar / Divya Ranjan