Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 12 सितंबरमासः (हि.स.)।
उत्तराखण्डे पर्यटकानां श्रद्धालूनां च वर्धमानां संख्यां दृष्ट्वा राज्यसर्वकारेण पर्वतीयक्षेत्रेषु वाहनस्थापनसुविधानां विस्ताराय बलं प्रदत्तम्। आवासविभागेन गतचतुर्षु वर्षेषु ६३ वाहनस्थापनपरियोजनानां कार्यं पूर्णं कृत्वा १० पर्वतीयजनपदेषु कुलं ४२०२ वाहनानां क्षमतायुक्ताः वाहनस्थापनसुविधाः विकसिताः सन्ति। सर्वकारस्य कथनमस्ति यत् अनेन पर्यटनस्थलेषु तीर्थस्थलेषु च यातायातस्य दबावं न्यूनीकर्तुं साहाय्यं प्राप्तम्।
मुख्यमन्त्रिणः पुष्करसिंहधामिनः निर्देशानुसारं वाहनस्थापनजालस्य विस्तारस्य अन्तर्गतं प्रमुखेषु नगरेषु, तीर्थस्थलेषु पर्यटनकेन्द्रेषु च स्थानस्य उपलब्धतानुसारं भूतलीय-बहुमञ्जिली-स्वचालितवाहनस्थापनस्थलानां निर्माणं कृतम् अस्ति। विभागानुसारम् अल्मोडायां १०८७, नैनीताले ६७९, चम्पावते ६००, उत्तरकाश्यां ४७७, पिथौरागढे ३०९, रुद्रप्रयागे ३०४, पौड्यां २५६, चमोलीषु २०१, टिहरीषु १६३ तथा बागेश्वरे १२६ वाहनानां क्षमता विकसिताऽस्ति।
सर्वकारानुसारं नैनीताले वाहनस्थापनस्य समस्यां दृष्ट्वा मेट्रोपोल-होटल-परिसरक्षेत्रे नवीनवाहनस्थापनस्थलस्य निर्माणं क्रियमाणम् अस्ति। तस्य पूर्णत्वानन्तरं प्रायः ७०० वाहनानि स्थापयितुं शक्यन्ते।
एवमेव नैनीतालजनपदस्य प्रसिद्धे कैञ्चीधामे श्रद्धालूनां वर्धमानां संख्यां दृष्ट्वा बहुमञ्जिलवाहनस्थापनस्थलस्य निर्माणं क्रियमाणम् अस्ति। अत्र एकस्मिन् समये ५०० तः अधिकानि वाहनानि स्थापयितुं शक्यन्ते।
आवास-राज्यसम्पत्तिविभागस्य सचिवः डॉ. आर. राजेशकुमारः अवदत् यत् मुख्यमन्त्रिणः निर्देशानां क्रियान्वयनक्रमे प्रदेशे वाहनस्थापनसुविधानां विकासाय प्राथमिकता प्रदत्ता अस्ति। ६३ परियोजनानां कार्यं पूर्णं भवितेन पर्वतीयजनपदेषु वाहनस्थापनस्य समस्या बहुधा न्यूनीभूता अस्ति तथा च अनेन पर्यटकानां श्रद्धालूनां स्थानीय-नागरिकाणां च राहतिः प्राप्ता अस्ति।
मुख्यमन्त्री पुष्करसिंहधामी अवदत् यत् उत्तराखण्डः देशस्य विदेशस्य च पर्यटकानां श्रद्धालूनां च प्रमुखं गन्तव्यस्थानं भवति। गतवर्षे षट्कोटितः अधिकाः जनाः प्रदेशम् आगतवन्तः। एतत् दृष्ट्वा सर्वकारः यात्रिसुविधानां विस्ताराय निरन्तरं कार्यं कुर्वन् अस्ति। प्रमुखेषु पर्यटनस्थलेषु चतुर्धामयात्रामार्गेषु च यातायातस्य जामसमस्यायाः निवारणाय वाहनस्थापनसुविधानां विकासे विशेषं बलं दीयते।
---------------
Hindusthan Samachar / Dheeraj Maithani