Enter your Email Address to subscribe to our newsletters

-आगरायाम् अखिल भारतीय खटीक समाजस्य 'खटीक गर्जना सम्मेलनस्य आयाेजनम्
आगरा, 13 सितंबरमासः (हि.स.)।रक्षामन्त्री राजनाथसिंहः रविवासरे आग्रानगरे खन्दारीस्थे रावरृष्णपालसिंहसभागारे आयोजिते अखिलभारतीयखटीकसमाजस्य ‘खटीकगर्जनासम्मेलने’ मुख्यातिथिरूपेण सम्बोधनं कृतवान्। अस्मिन् अवसरे सः खटीकसमाजस्य वीरतां, साहसं धर्मपरायणतां च उल्लिख्य अवदत् यत् अस्य समाजस्य जनैः वैदिककालादेव राष्ट्रस्य धर्मस्य च रक्षणे महत्त्वपूर्णं योगदानं प्रदत्तम्। धर्माय समर्पिताः सन्तः देशरक्षायै अपि समाजस्य जनाः सर्वदा अग्रे स्थितवन्तः।
राजनाथसिंहः अवदत् यत् ये जनाः समाजं जातिदृष्ट्या पश्यन्ति, ते तस्य मूलभावनां न अवगन्तुं शक्नुवन्ति। कर्तव्येषु भिन्नता भवितुम् अर्हति, किन्तु लक्ष्यं राष्ट्ररक्षणमेव भवितव्यम्। सः अवदत् यत् खटीकसमाजस्य परिचयः साहसेन, कर्तव्यनिष्ठया राष्ट्राय समर्पणेन च अभवत्।
खटीकसमाजस्य इतिहासस्य पुनर्लेखनम् आवश्यकम्
रक्षामन्त्री अवदत् यत् इतिहासे खटीकसमाजस्य योगदानाय यथोचितं स्थानं न प्राप्तम्। इतिहासकारैः वा तस्य समाजस्य इतिहासः न लिखितः, अथवा तस्य योगदानं सम्यक् प्रकारेण प्रस्तुतं न कृतम्। अधुना खटीकसमाजस्य इतिहासस्य पुनर्लेखनस्य आवश्यकता अस्ति।
सः अवदत् यत् देशं विदेशीयाक्रमणकारिभ्यः रक्षितुं खटीकसमाजस्य जनैः अग्रणी भूमिका निर्व्यूढा। स्वातन्त्र्यपूर्वकाले आङ्ग्लानाम् अपि समाजस्य जनैः वीरतया प्रतिकारः कृतः तथा स्वतन्त्रतासङ्ग्रामे स्वसर्वस्वं समर्पितम्। स्वातन्त्र्यप्राप्तेः अनन्तरमपि धर्मस्य राष्ट्रस्य च रक्षणकार्येषु समाजेन निरन्तरं स्वभूमिका निर्व्यूढा।
राजनाथसिंहः अवदत् यत् “खटीकः सः, यः भयमपि भयभीतं कुर्यात्।”
उत्तरप्रदेशे द्रुतगत्या भवति विकासः
रक्षामन्त्री उत्तरप्रदेशे प्रचलितानां विकासकार्याणाम् अपि प्रशंसाम् अकरोत्। सः अवदत् यत् सर्वकारस्य प्रयासः अस्ति यत् कोऽपि समाजः शिक्षायाः वञ्चितः न भवेत्। भाजपासर्वकारस्य शासनकाले साक्षरतायाः शिक्षायाश्च विस्तारस्य सह विकासकार्याणाम् अपि गतिः वर्धिता अस्ति।
सः अवदत् यत् प्रदेशे मार्गाणां निर्माणं द्रुतगत्या क्रियते। नगरात् ग्रामपर्यन्तं मार्गसम्पर्कः सुदृढः क्रियते। प्रदेशे विकासकार्याणां कृते मुख्यमन्त्री योगी आदित्यनाथस्य अपि सः प्रशंसाम् अकरोत्।
सम्मेलने अखिलभारतीयखटीकसमाजस्य राष्ट्रियाध्यक्षः उज्जैनस्य सांसदः अनिलफिरेञ्जिया, बुलन्दशहरस्य सांसदः डॉ. भोलासिंहः, टूण्डलायाः पूर्वविधायकः शिवसिंहचकः, भाजपानेता ओमप्रकाशचलनी इत्यादयः समाजस्य भाजपायाश्च अनेकाः प्रमुखनेतारः उपस्थिताः आसन्।
--------------
Hindusthan Samachar / Dheeraj Maithani