Enter your Email Address to subscribe to our newsletters


आगरा , 13 सितंबरमासः (हि.स.)।
आगरानगरे रविवासरे आयोज्यमाने खटीकसमाजस्य खटीकगर्जनासम्मेलने भारतसर्वकारस्य रक्षामन्त्री राजनाथसिंहः मुख्यातिथिरूपेण भागं ग्रहीष्यति। अस्मिन् सम्मेलने खटीकसमाजस्य जनप्रतिनिधयः वरिष्ठपदाधिकारिणश्च भागं गृहीत्वा खटीकसमाजस्य समस्यासु आवश्यकतासु च विचारविमर्शं करिष्यन्ति।
अखिलभारतीयखटीकसमाजस्य तत्वावधाने रविवासरे आगरा नगरे हरिपर्वतक्षेत्रस्य खन्दारीस्थले राजाबलवन्तसिंहमहाविद्यालयस्य रावराजकृष्णपालसिंहसभागारे खटीकसमाजस्य विशालसम्मेलनम् आयोजितम् अस्ति। सम्मेलने खटीकसमाजस्य राजनैतिकसामाजिकसहभागितायाः भागीदारीयाः योगदानस्य च विषये अपि प्रकाशः पातयिष्यते।
खटीकगर्जनासम्मेलनस्य कार्यक्रमसंयोजकः राष्ट्रियः उपाध्यक्षश्च हेमन्तचलनीवाले तथा आयोजकः संजीवचकः उक्तवन्तौ यत् त्रयोदशे सितम्बरमासस्य रविवासरे प्रस्ताविते खटीकगर्जनासम्मेलने भारतसर्वकारस्य रक्षामन्त्री राजनाथसिंहः मुख्यातिथिरूपेण भागं ग्रहीष्यति। तदतिरिक्तं विशिष्टातिथिरूपेण सामाजिकन्यायस्य अधिकारितामन्त्रालयस्य मन्त्री वीरेन्द्रखटीकः, सङ्गठनस्य राष्ट्रियाध्यक्षः उज्जयिनीतः सांसदः अनिलफिरोजिया, बुलन्दशहरस्य सांसदः डॉ भोला सिंहः तथा उत्तरप्रदेशसर्वकारस्य जलशक्तिराज्यमन्त्री दिनेशखटीकश्च प्रमुखरूपेण सम्मिलिताः भविष्यन्ति।
शिष्टाचारसूचनानुसारं रक्षामन्त्री अद्य रविवासरे आगरा नगरे खन्दारीस्थिते आरबीएसमहाविद्यालये खटीकसमाजस्य गर्जनासम्मेलने मुख्यातिथिरूपेण भागं ग्रहीष्यति। मध्याह्ने प्रायः द्वादशवादने सः देहलीतः विशेषविमानेन आगरा वायुसैनिकस्थानकं प्राप्स्यति। ततः कारवाहिकया प्रायः सार्धद्वादशवादने आरबीएसमहाविद्यालयस्य सभागारं प्राप्य सम्मेलने भागं ग्रहीष्यति। प्रायः द्विहोरापर्यन्तं सम्मेलने उपस्थितः भूत्वा रक्षामन्त्रिणः खटीकसमाजस्य वरिष्ठपदाधिकारी हेमन्तचलनीवाले इत्यस्य गृहमपि गन्तुं कार्यक्रमः अस्ति। तत्र मध्याह्नभोजनं कृत्वा सः अपराह्ने त्रिवादने विशेषविमानेन देहलीं प्रति प्रस्थास्यति।
अस्मिन् अवधौ वायुसैनिकबलस्य पक्षतः स्थानकात् कार्यक्रमस्थलं प्रति गन्तव्येषु मार्गेषु पर्याप्ता सुरक्षाव्यवस्था कृता अस्ति। प्रमुखेषु चतुष्पथेषु जनसमूहेन संकुलेषु क्षेत्रेषु च कठोरं निरीक्षणं बैरिकेडव्यवस्था च कृत्वा पुलिसकर्मचारिणः नियुक्ताः सन्ति। उच्चभवनानाम् उपरि अपि सुरक्षाकर्तव्यस्य व्यवस्था कृता अस्ति।
दलस्य महानगराध्यक्षः राजकुमारगुप्तः उक्तवान् यत् रक्षामन्त्रिणः आगमनसमये जनपदस्य सांसदाः अन्ये जनप्रतिनिधयश्च कार्यक्रमे उपस्थिताः भविष्यन्ति। आगरा जनपदस्य अतिरिक्तं समीपस्थेभ्यः जनपदेभ्यः अपि खटीकसमाजस्य जनानां सहभागिता भविष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani