Enter your Email Address to subscribe to our newsletters

गुवाहाटी, १३ सेप्टेम्बरमासः (हि.स.)। असमस्य मुख्यमन्त्रिणा डॉ. हिमन्त-बिस्वसरमणा रविवासरे प्रख्याताय शिक्षाविदे, साहित्यकाराय शोधकर्त्रे च डॉ. महेश्वर-नेओगाय पुण्यतिथौ भावपूर्णा श्रद्धाञ्जलिः समर्पिता।
मुख्यमन्त्रिणा सामाजिकमाध्यमे प्रकाशितेन सन्देशेन असमियाभाषायाः, साहित्यस्य संस्कृतेश्च अध्ययनस्य अनुसन्धानस्य च क्षेत्रे डॉ. नेओग-महोदयस्य प्रदत्तं उल्लेखनीयं योगदानं स्मृतम्।
तेन उक्तं यत् डॉ. नेओग-महोदयस्य असाधारणैः शोधकार्यैः, दूरदर्शिना चिन्तनेन अमूल्येन साहित्यिकयोगदानेन च असमियासमाजस्य बौद्धिकं सांस्कृतिकं च परिचयं समृद्धीकर्तुं महत्त्वपूर्णा भूमिका निर्वुढा।
मुख्यमन्त्रिणा डॉ. हिमन्तबिस्वसरमणा उक्तं यत् डॉ. महेश्वर-नेओगस्य आदर्शाः तस्य कार्याणि च अग्रिमवंशानां कृते सदैव प्रेरणास्रोतांसि भविष्यन्ति। तेन महाविदुषः योगदानं स्मरता तस्मै गहनः श्रद्धाभावः प्रकटितः।
Hindusthan Samachar / Divya Ranjan