Enter your Email Address to subscribe to our newsletters

अररिया, १३ सेप्टेम्बरमासः (हि.स.)। अररिया-जनपदसहिते बिहारस्य अन्येषु जनपदेष्वपि रक्तदानं, कन्यादानं, वस्त्रदानं, वृक्षारोपणं तथा निर्धनेभ्यः असहायेभ्यः विवशेभ्यश्च आर्थिकसहायतां प्रदातुं कार्यं कुर्वती लाइफ सेवियर फाउण्डेशन-संस्था अयोध्यायां रामकृष्ण-सेवासंस्थानेन सम्मानिता।
श्रीरामजन्मभूमौ अयोध्यायां रामकृष्ण-सेवासंस्थानेन सेवाक्षेत्रे सर्वोत्कृष्टकार्याय लाइफ सेवियर फाउण्डेशन-संस्थायै सर्वोत्तमसम्मानं प्रदत्तम्। संस्थायाः अभिभावकौ रजत-रञ्जनः विजय-प्रकाशश्च, डॉ. अजयकुमारसिंहः तथा सचिवः आदित्यभगतः अवदन् यत् संस्था केवलम् अररियायामेव न, अपितु बिहारस्य अन्येषु प्रदेशेषु बिहारात् बहिः स्थितेषु राज्येष्वपि सेवाकार्यं करोति। श्रीरामजन्मभूमौ प्राप्तेन अस्मिन् सम्मानेन सनातनप्रेमिषु उत्साहः दृश्यते। सनातनसमाजस्य समाजसेविनां च सर्वैः संस्थायाः उज्ज्वलभविष्यस्य कामना कृता।
वर्तमानविधायकः मनोजविश्वासः, पूर्व-विधायकौ मञ्चनकेशरी लक्ष्मी-नारायणमेहता च, प्रमुखः ओमप्रकाश-पासवानः, मुखिया दिलीपपासवानः, मिन्टुसाहः, सुमनसाहः, राजा सरकारः, राजा दासः, राहुलयादवः, सुजीतसिंहः, सौरवदासः, रितेशराणाः, पवनगुप्तः, आदित्यसिंहः, अविनाशकन्नोजियाः, सुजितझाः, दीपकठाकुरः, आदेशठाकुरः इत्यादयः संस्थां प्राप्तसम्मानाय अभिनन्दितवन्तः।
Hindusthan Samachar / Divya Ranjan