प्रधानमन्त्रिणो नरेन्द्रमोदिनः जन्मदिवसात् भाजपामहिलामोर्चा प्रारप्स्यति ‘सेवा एव सङ्कल्पः’ अभियानम्
मंडी, 13 सितंबरमासः (हि.स.)। भाजपामण्डीमण्डलस्य विशेषसभा मण्डीस्थिते दलकार्यालये महिलामोर्चामण्डलाध्यक्षाया अञ्जनाकुमार्याः अध्यक्षतायाम् आयोजिताऽभवत्। सभायां मुख्यरूपेण भाजपाप्रदेशमहामन्त्री पायलवैद्यः, भाजपाजनपदमहामन्त्री करणवीरकौण्डलः, भाजपाप
महिला मोर्चा की बैठक के दौरान।


मंडी, 13 सितंबरमासः (हि.स.)।

भाजपामण्डीमण्डलस्य विशेषसभा मण्डीस्थिते दलकार्यालये महिलामोर्चामण्डलाध्यक्षाया अञ्जनाकुमार्याः अध्यक्षतायाम् आयोजिताऽभवत्। सभायां मुख्यरूपेण भाजपाप्रदेशमहामन्त्री पायलवैद्यः, भाजपाजनपदमहामन्त्री करणवीरकौण्डलः, भाजपाप्रदेशोपाध्यक्षः मण्डीनगरनिगमस्य महापौरश्च सुमनठाकुरः, भाजपामहिलामोर्चाजनपदाध्यक्षः सीमाशर्मा तथा भाजपामण्डीमण्डलाध्यक्षः राहुलसेनः गरिमामयी उपस्थितिं दत्तवन्तः।

सभायाः समये निर्धारितं यत् प्रधानमन्त्रीनरेन्द्रमोदिनः जन्मदिवसस्य अवसरे राष्ट्रव्यापी ‘सेवा एव सङ्कल्पः’ अभियानम् आरभ्यते। यत् सप्तदशात् सितम्बरमासात् सप्तदशात् अक्टूबरमासपर्यन्तं आयोजितं भविष्यति। भाजपामहिलामोर्चस्य सभायां ‘सेवा एव सङ्कल्पः’ अभियानस्य विषये विस्तृतरूपेण चर्चा कृता। अस्मिन् अवसरे अभियानस्य अन्तर्गतं आयोजितव्येषां विविधसामाजिकानां जनसेवाकार्याणां च विस्तृता रूपरेखा अपि सज्जीकृता। अस्यां सभायां महिलामोर्चस्य प्रदेश, जनपद एवं मण्डलस्तरस्य सम्मानिताः पदाधिकारिण्यः उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani