ब्रिक्स-सदस्यदेशैः सांस्कृतिकपरम्पराया: संरक्षणस्य आह्वानम्
नवदिल्ली, १३ सेप्टेम्बरमासः (हि.स.)। ब्रिक्सस्य नेतारः सांस्कृतिकपरम्पराया: संरक्षणस्य आह्वानं कृतवन्तः। अस्मिन् आह्वाने संघर्षप्रभावितक्षेत्रेषु सांस्कृतिक-परम्परायाः सुरक्षापि अन्तर्भवति। ते पुरावशेषानां तथा आध्यात्मिक-पैतृक-ऐतिहासिक-सांस्कृतिकमह
नई दिल्ली में ब्रिक्स के नेतागण भारत मंडपम में। फोटो - पीआईबी


नवदिल्ली, १३ सेप्टेम्बरमासः (हि.स.)। ब्रिक्सस्य नेतारः सांस्कृतिकपरम्पराया: संरक्षणस्य आह्वानं कृतवन्तः। अस्मिन् आह्वाने संघर्षप्रभावितक्षेत्रेषु सांस्कृतिक-परम्परायाः सुरक्षापि अन्तर्भवति। ते पुरावशेषानां तथा आध्यात्मिक-पैतृक-ऐतिहासिक-सांस्कृतिकमहत्त्वयुक्तानां वस्तूनां तेषां मूलदेशे प्रत्यर्पणस्य आवश्यकतायामपि बलं दत्तवन्तः।

भारतस्य अध्यक्षतायाम् आयोजितस्य द्विदिवसीयस्य ब्रिक्स-शिखरसम्मेलनस्य प्रथमदिने स्वीकृते ‘नवदिल्लीघोषणापत्रे’ समूहः ब्रिक्स-संस्कृतिमन्त्रिणां एकादशे सत्रे ‘भोपालघोषणापत्रस्य’ स्वीकरणस्यापि स्वागतं कृतवान्। अस्मिन् जनानां मध्ये सहयोगस्य वर्धने सदस्यदेशानां परस्परसंबन्धानां सुदृढीकरणे च संस्कृतेः महत्त्वपूर्णां भूमिकां पुनः पुष्टिं कृतवान्।

प्रधानमन्त्री नरेन्द्रमोदी प्रथमदिवसस्य चर्चायाः समापनावसरे घोषणापत्रस्य स्वीकरणस्य घोषणां कृतवान्। अस्मिन् समये चीनदेशस्य राष्ट्रपतिः शी जिनपिङ्गः, रूसदेशस्य राष्ट्रपतिः व्लादिमीरपुतिनः, ईरानदेशस्य राष्ट्रपतिः मसूदपेजेश्कियानः, अबुधाबीनगरस्य युवराजः मोहम्मदबिनजायद-अल-नाहयानः तथा समूहस्य अन्ये प्रमुखाः नेतारः उपस्थिताः आसन्।

घोषणापत्रे उक्तम् अस्ति— “वयं संघर्षप्रभावितक्षेत्रै: सह सर्वेषु क्षेत्रेषु सांस्कृतिकपरम्परायाः संरक्षणस्य आह्वानं कुर्मः, येन सांस्कृतिकसम्पत्तिनां विनाशः अवैधव्यापारश्च निवारयितुं शक्येत। प्रभावितसमुदायानाम् इतिहासस्य परिचयस्य च संरक्षणाय एतत् महत्त्वपूर्णम् अस्ति। वयं सांस्कृतिकपरम्परायाः, पुरावशेषाणां तथा आध्यात्मिक-पैतृक-ऐतिहासिक-सांस्कृतिकमहत्त्वयुक्तानां वस्तूनां तेषां मूलदेशे प्रत्यर्पणस्य आवश्यकतायामपि बलं दद्मः।”

नेतारः संग्रहालयानाम्, अभिलेखा-गाराणाम्, पुस्तकालयानां तथा अन्येषां सम्बद्धानां सांस्कृतिकसंस्थानां मध्ये सूचनानां, तथ्यानां च आदान-प्रदानद्वारा संस्थागतसहयोगेन च ब्रिक्सदेशानां मध्ये सहयोगं प्रवर्धयितुमपि उक्तवन्तः। नवदिल्लीघोषणापत्रे उक्तम् अस्ति— “वयं सांस्कृतिक-रचनात्मक-उद्योगेषु सूचनानाम् आदान-प्रदानं तथा उत्तमपद्धतीनां साझाकरणं प्रोत्साहयामः। अस्मिन् कलाकाराणां तथा सांस्कृतिक-क्षेत्रसम्बद्धानां जनानां प्रशिक्षणं क्षमतानिर्माणं च अन्तर्भवति।”

सम्भावनानां प्रोत्साहनम्

घोषणापत्रे उक्तम् अस्ति— “वयं सम्बद्धानां यूनेस्को-सम्मेलनानां कार्यक्रमाणां च अन्तर्गतं स्वैच्छिकाधारेण संयुक्तबहु-राष्ट्रीयनामाङ्कनस्य सम्भावनानां अन्वेषणं प्रोत्साहयामः। सांस्कृतिक-उद्योगानां संसाधनानां च विकासाय प्रासङ्गिकबहुपक्षीयमञ्चै: सह ब्रिक्सदेशानां मध्ये अग्रिमसहयोगं प्रवर्धयितुमपि वयं प्रोत्साहयामः।” सदस्यदेशैः ब्रिक्स-संस्कृतिमहोत्सवस्य ‘वेव्स-बाजारस्य’ च आयोजनस्य स्वागतं कृतम्।

ब्रिक्स इत्यस्य सदस्यदेशाः

ब्रिक्से ब्राजील, रूसः, भारतम्, चीनं दक्षिणाफ्रिका च सन्ति। वर्षे २०२४ मिस्रदेशस्य, इथियोपियादेशस्य, ईरान-देशस्य, संयुक्तारब-अमीरातस्य तथा सऊदी-अरबदेशस्य च समावेशेन अस्य विस्तारः अभवत्। इण्डोनेशिया २०२५ तमे वर्षे अस्य सदस्यः अभवत्। बेलारूसः, बोलिविया, कजाकिस्तानम्, क्यूबा, मलेशिया, नाइजीरिया, थाईलैण्ड्, युगाण्डा, उज्बेकिस्तानं वियतनामश्च गतवर्षे ब्रिक्सस्य सहभागदेशाः अभवन्।

द्विदशकपूर्तौ द्वौ स्मारकडाकचिटिके

उल्लेखनीयं यत् ब्रिक्सस्य द्विदशक-पूर्त्यवसरे १२ सेप्टेम्बर्-दिने नवदिल्ल्याः भारत-मण्डपे १८तमस्य ब्रिक्स-शिखर-सम्मेलनस्य समये द्वौ स्मारकडाकचिटिके विमोचिते। उभे डाकचिटिके भारतस्य २०२६-वर्षस्य ब्रिक्स-अध्यक्षतायाः प्राथमिकतानामपि प्रतिबिम्बं दर्शयतः। तस्याः विषयवस्तु अस्ति— “सुदृढतायै, नवाचाराय, सहयोगाय स्थैर्याय च निर्माणम्।”

एकां डाकचिटिकां परस्परसम्मानस्य, अवबोधनस्य एकतायाः च भावनायुक्तस्य मञ्चस्य रूपेण ब्रिक्सस्य उद्भवं दर्शयति, अपरं च भारतस्य अध्यक्षतायाः “मानवता सर्वप्रथमम्” तथा “जनकेन्द्रितम्” इति दृष्टिकोणं प्रतीकचिह्नं च प्रदर्शयति।

Hindusthan Samachar / Divya Ranjan