Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 13 सितंबरमासः (हि.स.)।
देशे आयोजिते अष्टादशे ब्रिक्स्-शिखरसम्मेलने स्वीकृते ‘नवदेहलीघोषणापत्रे’ पारम्परिकपूरकसमेकितचिकित्सायाः क्षेत्रे अन्ताराष्ट्रियसहयोगस्य महत्त्वपूर्णः विस्तारः कृतः। घोषणापत्रे स्वास्थ्यव्यवस्थानां सुदृढीकरणे सार्वभौमस्वास्थ्यकवरेजस्य लक्ष्यप्राप्तौ च पारम्परिकपूरकसमेकितचिकित्सायाः वर्धमानायाः भूमिकायाः औपचारिकं मान्यतां प्रदत्तम्। सहैव ब्रिक्स्-स्वास्थ्यप्रक्रियायाः अन्तर्गतं पारम्परिकपूरकसमेकितचिकित्सायां विशेषस्य ‘ब्रिक्स्-विशेषज्ञकार्यसमूहस्य’ स्थापनायाः प्रस्तावस्य स्वागतं कृतम्।
केन्द्रीयायुष्-राज्यमन्त्री स्वतन्त्रप्रभारः स्वास्थ्यपरिवारकल्याणराज्यमन्त्री च प्रतापरावजाधवः अस्य निर्णयस्य वैश्विकस्वास्थ्याय ऐतिहासिकं चरणम् इति वर्णनं कृतवान्। सः अवदत् यत् नवदेहलीघोषणापत्रे पारम्परिकपूरकसमेकितचिकित्सायाः मान्यता पारम्परिकचिकित्सायाम् अन्तरराष्ट्रीयसहयोगं सुदृढं कर्तुं दिशि मीलस्तम्भः अस्ति। प्रस्तावितः विशेषज्ञकार्यसमूहः सदस्यदेशानां मध्ये ज्ञानस्य आदानप्रदानाय, अनुसन्धानस्य प्रोत्साहनाय, साक्ष्याधारितदृष्टिकोणस्य च विकासाय प्रभावीमञ्चं प्रदास्यति। भारतः वैज्ञानिकानुसन्धानस्य, गुणवत्तानिश्चयस्य वैश्विकसहकारितायाः च माध्यमेन आयुर्वेदम् अन्याः पारम्परिकचिकित्सापद्धतीश्च अग्रे नेतुं प्रतिबद्धः अस्ति, येन सुरक्षिताः प्रभावशीलाः किफायत्युक्ताश्च स्वास्थ्यसेवाः सुनिश्चिताः भवितुं शक्नुवन्ति।
आयुष्-मन्त्रालयस्य सचिवः वैद्यराजेशकुटेचा अवदत् यत् घोषणापत्रं ब्रिक्स्-देशानां मध्ये पारम्परिकपूरकसमेकितचिकित्सायां संरचितसहयोगस्य आधारं स्थापयति। अयं कार्यसमूहः साक्ष्याणां आदानप्रदाने, अनुसन्धानसहकारितावर्धने, नियामकगुणवत्तामानकानां च सुधारणे सहायकः भविष्यति। भारतः स्वकीयस्य आयुष्-पारिस्थितिकीतन्त्रस्य माध्यमेन वैज्ञानिकानुसन्धानं साक्ष्याधारितप्रथाश्च प्रोत्साहयन् अस्मिन् सहयोगे सक्रियां भूमिकां निर्वक्ष्यति।
घोषणापत्रे उपचारात्मकानां निवारणात्मकानां च प्रयोजनानां कृते औषधीयवनस्पतीनां हर्बल-उत्पादानां च विषये केन्द्रिते अनुसन्धाने सहयोगं वर्धयितुम् आह्वानं कृतम्। तत्र एतद् रेखाङ्कितं यत् ब्रिक्स्-देशानां पारम्परिकाः औषधीयपद्धतयः सुरक्षितानां प्रभाविणां च उत्पादानां विकासाय महत्त्वपूर्णः आधारः भवितुम् अर्हन्ति। सहैव सदस्यदेशानां राष्ट्रियसन्दर्भानुरूपेण साक्ष्याधारितदृष्टिकोणेन नियामकसंरचनाभिश्च एतासां पद्धतीनां गुणवत्ता, सुरक्षा प्रभावकारिता च सुनिश्चितां कर्तुं बलं दत्तम्।
उल्लेखनीयम् अस्ति यत् भारतस्य ब्रिक्स्-अध्यक्षतायाः अन्तर्गतं अस्मिन् वर्षे २१ जुलै-दिने चण्डीगढे पारम्परिकपूरकसमेकितचिकित्सायाः विषये महत्त्वपूर्णा सभा आयोजिता आसीत्। तस्यां सभायां विशेषज्ञकार्यसमूहस्य सन्दर्भशर्तिषु अर्थात् कार्यपरिधिषु सर्वसम्मतिः अभवत्। विश्वस्वास्थ्यसङ्गठनस्य वैश्विकपारम्परिकचिकित्सानीतेः २०२५-२०३४ इत्यस्य सन्दर्भेऽपि ब्रिक्स्-सङ्घस्य एतत् पदक्षेपं पारम्परिकचिकित्सायाः वैज्ञानिकसमेकीकरणस्य दिशि अत्यन्तं महत्त्वपूर्णम् इति मन्यते।
---------------
Hindusthan Samachar / Dheeraj Maithani