Enter your Email Address to subscribe to our newsletters

नवीनटिहरी, १३ सेप्टेम्बरमासः (हि.स.)। मुख्यमन्त्री पुष्करसिंहधामी कीर्तिनगर-चौरसस्थिते स्वामीमन्मथन-प्रेक्षागृहे देवप्रयाग-विधानसभाक्षेत्रस्य भारतदर्शन-शैक्षिकभ्रमणस्य दशमसंस्करणस्य अन्तर्गतं भारतभ्रमणाय गम्यमानै: ६८ मेधावीविद्यार्थिभिः शिक्षकैश्च सह संवादं कृतवान्। विद्यार्थिभ्यः यात्रायै शुभकामनाः प्रदाय सः अवदत् यत् भारतदर्शनस्य माध्यमेन ते देशस्य विविधतां, इतिहासं, संस्कृतिं, विज्ञानं, प्रौद्योगिकी-विकासं च समीपतः अवगन्तुं अवसरं प्राप्स्यन्ति।
रविवासरे चौरसे मुख्यमन्त्री विद्यार्थिभ्यः भ्रमणकाले विभिन्नक्षेत्राणां विशेषताभ्यः उपलब्धिभ्यश्च शिक्षितुं स्वानुभवान् सहपाठिभिः सह सहभागं कर्तुं च आह्वानं कृतवान्। सः अवदत् यत् जीवने लक्ष्यं निर्धार्य निरन्तरप्रयत्नेन दृढसङ्कल्पेन च सफलता प्राप्तुं शक्यते। सः प्रधानमन्त्रिणः नरेन्द्रमोदिनः विकसितभारतस्य सङ्कल्पस्य उत्तराखण्डस्य विकासदिशि क्रियमाणानां कार्याणां च उल्लेखम् अपि कृतवान्।
मुख्यमन्त्री भारतदर्शनस्य अस्य प्रयत्नस्य दशवर्षपूर्तौ देवप्रयागस्य विधायकं विनोदकण्डारी इत्यस्मै शुभकामना: अयच्छत्। सः अवदत् यत् अनेन उपक्रमेण विद्यार्थिषु स्पर्धाभावना वर्धिता अस्ति। अस्मिन् वर्षे प्रायः १००० विद्यार्थिनः भारतभ्रमणस्य अवसरं प्राप्नुवन्ति, भविष्ये च एतां सङ्ख्यां २०००-पर्यन्तं वर्धयितुं प्रयासः क्रियते। विधायकः कण्डारी अवदत् यत् अनेन योजनया विद्यार्थिषु उत्तमप्रदर्शनाय प्रेरणा प्राप्ता अस्ति।
दशमसंस्करणस्य अन्तर्गतं ६८ विद्यार्थिनः शिक्षकाः च १६ सेप्टेम्बरमासे यात्रायै प्रस्थास्यन्ति। भ्रमणकाले ऐतिहासिक-सांस्कृतिक-शैक्षिकस्थलानां प्रमुख-संस्थानां च अवलोकनं कारयिष्यते। अस्मिन् अवसरे मेधावीविद्यार्थिभिः सह उत्कृष्टलेखनाय कनकलता, आयुषः, प्रियांशुः, राघवः केन्तुरा च सम्मानिताः। कार्यक्रमे गढवालविश्वविद्यालयस्य कुलपतिः श्रीप्रकाशसिंहः, भाजपाजनपदा-ध्यक्षः उदयरावतः, कीर्तिनगरस्य खण्डप्रमुखा अचलाखण्डेवालः, देवप्रयागस्य प्रमुखः विनोदबिष्टः, कीर्तिनगरस्य नगरपञ्चायताध्यक्षः राकेशमोहनमैठाणी, नरेन्द्रकुँवरः च उपस्थिताः आसन्।
/ अंशु गुप्ता