शुष्कतापीडितक्षेत्राणां कृष्यै ‘दिल्लीघोषणापत्रं’ प्रकाशितम्, वैश्विकदक्षिणस्य देशेषु परस्परसहयोगे सहमतिः
नवदिल्ली, 13 सितंबरमासः (हि.स.)। शुष्कतापीडितेषु न्यूनवृष्टियुक्तेषु च क्षेत्रेषु कृषेः स्थायित्वं सुनिश्चितं कर्तुं विज्ञानम्, उन्नताः नवाचाराः, सुदृढा च दत्तांशव्यवस्था इत्येतेषां साझा-कार्यसूच्याः आधारेण ‘शुष्कभूमौ कृषिं’ सम्बद्धं ‘दिल्लीघोषणा
शुष्कतापीडितक्षेत्राणां कृष्यै ‘दिल्लीघोषणापत्रं’ प्रकाशितम्, वैश्विकदक्षिणस्य देशेषु परस्परसहयोगे सहमतिः


नवदिल्ली, 13 सितंबरमासः (हि.स.)।

शुष्कतापीडितेषु न्यूनवृष्टियुक्तेषु च क्षेत्रेषु कृषेः स्थायित्वं सुनिश्चितं कर्तुं विज्ञानम्, उन्नताः नवाचाराः, सुदृढा च दत्तांशव्यवस्था इत्येतेषां साझा-कार्यसूच्याः आधारेण ‘शुष्कभूमौ कृषिं’ सम्बद्धं ‘दिल्लीघोषणापत्रम्’ सर्वसम्मत्या स्वीकृतम्। तेन सह त्रिदिवसीयः ड्राइलैण्ड-काङ्ग्रेस् २०२६ इत्यस्य आयोजनम् अद्य अत्र सम्पन्नम्।

सम्मेलनस्य अवधौ कृषिं सुदृढीकर्तुं ग्लोबल् क्रॉप् डायवर्सिटी ट्रस्ट्, विप्रो इत्यादीनां बहूनां संस्थानां मध्ये महत्त्वपूर्णाः सम्झौताः सम्पन्नाः। अपि च चतुस्त्रिंशत्-देशेभ्यः प्राप्तेषु १७० नामाङ्कनेषु चयनितेभ्यः संस्थानेभ्यः वैज्ञानिकेभ्यश्च ‘आईएसएससीए ग्लोबल् अवॉर्ड्स् २०२६’ पुरस्काराः प्रदत्ताः। षोडश शोधार्थिभ्यः सर्वश्रेष्ठ-पोस्टर-पुरस्कारः अपि प्रदत्तः।

केन्द्रीयकृषिमन्त्रालयेन कृषककल्याणमन्त्रालयेन च उक्तं यत् ‘दक्षिण-दक्षिणसहयोगेन शुष्कभूमिकृषौ परिवर्तनम्’ इति विषये आयोजितम् एतत् त्रिदिवसीयम् आयोजनं मूलतः जलाभावेन अनावृष्ट्या च पीडितानां कृषिक्षेत्राणाम् कृते एकम् अन्तर्राष्ट्रीयं मञ्चम् आसीत्। अत्र विश्वस्य विभिन्नेभ्यः भागेभ्यः आगताः वैज्ञानिकाः, नीतिनिर्मातारः, संस्थानानां प्रतिनिधयश्च एकत्र समुपविश्य न्यूनजले उत्तमोत्पादनम्, जलवायुपरिवर्तनस्य सम्मुखीकरणाय प्रौद्योगिकीः, कृषकाणां आजीविकां सुरक्षितां कर्तुं च ठोसोपायान् प्रति मन्थनं कृतवन्तः।

समापनसत्रे कृषिअनुसन्धानशिक्षाविभागस्य (डेयर) सचिवः तथा भारतीयकृषिअनुसन्धानपरिषदः (आईसीएआर) महानिदेशकः डॉ. एम.एल. जाटः उक्तवान् यत् शुष्कतापीडितक्षेत्राणां कृषिनीतिषु भविष्यस्य आवश्यकतानां समावेशः भवितव्यः। एतदर्थं सुदृढायाः संस्थागतव्यवस्थायाः आवश्यकता वर्तते। आईसीएआरस्य राष्ट्रीयकृषिअर्थशास्त्रनीतिअनुसन्धानसंस्थानाय अस्मिन् क्षेत्रे भविष्यस्य कृषिसम्बद्धां कार्ययोजनां निर्मातुं दायित्वं प्रदास्यते। अनुसन्धानं, कृषिव्यवहारं नीतयश्च परस्परं संयोजयन्त्यः प्रयोगशालाः विकसितव्याः इत्यस्मिन् विषये अपि तेन बलं दत्तम्।

अन्तर्राष्ट्रीयार्धशुष्कोष्णकटिबन्धीयफसलानाम् अनुसन्धानसंस्थायाः (इक्रिसैट्) महानिदेशकः डॉ. हिमांशुः पाठकः उक्तवान् यत् शुष्कतापीडितक्षेत्राणि वैश्विकखाद्यसुरक्षायाः दृष्ट्या रणनीत्यात्मकरीत्या अत्यन्तं महत्त्वपूर्णानि सन्ति। सम्मेलनस्य विचारविमर्शं भूमौ कार्यरूपेण परिणेतुं सः आह्वानं कृतवान्। अवधारणाः वास्तविकक्रियान्वयने परिवर्तयितुं विशेषज्ञतां, वैज्ञानिकज्ञानं परस्परसाझेदारीं च एकस्मिन् मञ्चे आनेतुं अनिवार्यम् अस्ति इति सः उक्तवान्।

सम्मेलनस्य अवधौ इक्रिसैट्-संस्थया एवियर् लाइफ् साइन्सेस्, राष्ट्रीयखाद्यप्रौद्योगिक्युद्यमिताप्रबन्धनसंस्थानम् (निफ्टेम्), विप्रो लिमिटेड् तथा ओडिशाराज्यस्य अंगुल-रायगडा-जनपदप्रशासनाभ्यां सह सम्झौताज्ञापनपत्रेषु हस्ताक्षराणि कृतानि।

काङ्ग्रेसस्य सह-अध्यक्षौ डॉ. डी.के. यादवः तथा डॉ. स्टैनफोर्ड् ब्लेडः त्रिदिवसीयस्य सत्रस्य प्रमुखाः अनुशंसाः सभायाः समक्षं प्रस्तुतवन्तौ।

एतत्पूर्वं संयुक्तराष्ट्रस्य दक्षिण-दक्षिणसहयोगदिवसस्य अवसरे विशेषसत्रम् आयोजितम्। तत्र संयुक्तराष्ट्रमहासचिवस्य, खाद्यकृषिसङ्गठनस्य (एफएओ) महानिदेशकस्य तथा यूएनओएसएससी-संस्थायाः निदेशकायाः दिमा अल्-खातिब् इत्यस्याः सन्देशाः पठिताः। सत्रे इथियोपिया, सेनेगल्, ब्राजील्, चीनदेशः भारतदेशश्च इत्येतेषां प्रतिनिधिभिः सफलकृषिमॉडलानां विस्तारसम्बद्धाः स्वानुभवाः साझीकृताः।

वैश्विकपुरस्काराणां ‘परिवर्तनकारी-उत्कृष्टता’ श्रेण्यां लेबनानदेशस्य आईसीएआरडीए, मेक्सिकोदेशस्य सीआईएमएमवाईटी तथा ओडिशासर्वकारस्य ‘ओडिशा आजीविका मिशन’ इत्येते सम्मानिताः।

---------------

Hindusthan Samachar / Dheeraj Maithani