सूरत-नवीनसिविलचिकित्सालये ३० शय्यात्मकस्य आधुनिक-डायलिसिसकेन्द्रस्य शुभारम्भः
चिकित्सकीय-आईसीयू तथा शल्य-चिकित्सा-आईसीयू च १० तः २० शय्यापर्यन्तं विस्तारिते सूरतम्, १३ सेप्टेम्बरमासः (हि.स.)। सूरतस्य नवीनसिविलचिकित्सालये शासकीय-चिकित्सामहाविद्यालये च रविवासरे उपमुख्यमन्त्रिणा हर्षसङ्घविना विविध-नूतनस्वास्थ्यसुविधानां लोकार्
નવી સિવિલ હોસ્પિટલ ખાતે વિવિધ નવીનતમ સુવિધાઓનું લોકાર્પણ કરતા નાયબ મુખ્યમંત્રી હર્ષ સંઘવી


चिकित्सकीय-आईसीयू तथा शल्य-चिकित्सा-आईसीयू च १० तः २० शय्यापर्यन्तं विस्तारिते

सूरतम्, १३ सेप्टेम्बरमासः (हि.स.)। सूरतस्य नवीनसिविलचिकित्सालये शासकीय-चिकित्सामहाविद्यालये च रविवासरे उपमुख्यमन्त्रिणा हर्षसङ्घविना विविध-नूतनस्वास्थ्यसुविधानां लोकार्पणं कृतम्। अस्मिन् अवसरे स्वास्थ्यराज्यमन्त्री प्रफुलपानशेरिया, विधायकः सङ्गीता-पाटीलः, चिकित्साधीक्षिका डॉ. पारुलवडगामा इत्यादयः अधिकारीगणाः उपस्थिताः आसन्।

नूतनासु सुविधासु ३० शय्यात्मकं आधुनिक-डायलिसिसकेन्द्रम्, चिकित्सकीय-आईसीयू १० तः २० शय्यापर्यन्तं तथा शल्यचिकित्सा-आईसीयू अपि १० तः २० शय्यापर्यन्तं विस्तारितौ स्तः। तदतिरिक्तम् अङ्गदानसम्बद्धानां रोगिणां कृते पृथक् आईसीयू, उन्नत-आपत्कालीनविभागः हेल्पडेस्क-सुविधा च प्रारब्धा।

उपमुख्यमन्त्री हर्षसङ्घवी अवदत् यत् सिविलचिकित्सालये प्रतिदिनं ४५०० तः ५००० पर्यन्तं रोगिणः बाह्यरोगीविभागस्य माध्यमेन चिकित्सां प्राप्नुवन्ति। १५०० शय्याक्षमतायुक्तस्य चिकित्सालयस्य चिकित्सकीयः परिचारिकावर्गश्च निरन्तरं रोगिणां सेवां कुर्वन्ति। सः सिविल-चिकित्सालयस्य अङ्गदानदलस्य कार्यस्य प्रशंसां कृत्वा अवदत् यत् दलेन जीवनरक्षणस्य क्षेत्रे उल्लेखनीयं कार्यं कृतम् अस्ति।

स्वास्थ्यराज्यमन्त्री प्रफुलपानशेरिया चिकित्सालयस्य कर्मचारिणां चिकित्स-कानां च सेवायाः प्रशंसां कृतवान्। सः अवदत् यत् स्वच्छतायाः उत्तम-चिकित्सायाश्च विषये चिकित्सालयं देशस्य कृते आदर्शं कर्तुं सङ्कल्पः करणीयः।

सः चिकित्साक्षेत्रे वरिष्ठैः कनिष्ठेषु क्रियमाणं रैगिङ्ग-कृत्यं कस्यामपि परिस्थितौ अस्वीकार्यं मन्यमानः सर्वान् अनुशासनेन दायित्वबोधेन च कार्यं कर्तुं आहूतवान्। सः कामरेज-नगरे १५०० शय्यात्मकस्य चिकित्सालयस्य परियोजनायाः प्रगतिविषये अपि सूचनां प्रदत्तवान्।

Hindusthan Samachar / Divya Ranjan