गणेशचतुर्थ्याः पूर्वसन्ध्यायां राष्ट्रपतिना द्रौपदीमुर्मुना देशवासिभ्यः शुभकामनाः प्रदत्ताः
नवदिल्ली, 13 सितंबरमासः (हि.स.)। राष्ट्रपतिः द्रौपदीमुर्मुः गणेशचतुर्थ्याः पूर्वसन्ध्यायां देशे विदेशे च निवसद्भ्यः सर्वेभ्यः भारतीयेभ्यः शुभकामनाः प्रदत्तवती। सा भगवान् गणेशं बुद्धेः, समृद्धेः शुभारम्भस्य च प्रतीकरूपेण वर्णयन्ती जनानां जीवने सुखं
राष्ट्रपति द्रौपदी मुर्मु (फाइल फोटो)


नवदिल्ली, 13 सितंबरमासः (हि.स.)।

राष्ट्रपतिः द्रौपदीमुर्मुः गणेशचतुर्थ्याः पूर्वसन्ध्यायां देशे विदेशे च निवसद्भ्यः सर्वेभ्यः भारतीयेभ्यः शुभकामनाः प्रदत्तवती। सा भगवान् गणेशं बुद्धेः, समृद्धेः शुभारम्भस्य च प्रतीकरूपेण वर्णयन्ती जनानां जीवने सुखं, शान्तिं, उत्तमस्वास्थ्यं समृद्धिं च कामितवती।

राष्ट्रपतिसचिवालयस्य अनुसारं सा स्वसन्देशे अवदत् यत् गणेशचतुर्थ्याः पर्व जीवनं ऊर्जया, ज्ञानेन सकारात्मकतया च पूरयति। एतत् पवित्रं पर्व जनान् नवीनसङ्कल्पैः सह प्रगतेः मार्गे अग्रे गन्तुं प्रेरयति।

सा भगवान् गणेशं सर्वेषां जीवने सुखं, शान्तिं, उत्तमस्वास्थ्यं समृद्धिं च प्रदातुं प्रार्थितवती। राष्ट्रपतिः देशवासिभ्यः राष्ट्रनिर्माणे योगदानं दातुं सङ्कल्पं कर्तुम् अपि आह्वानं कृतवती।

---------------

Hindusthan Samachar / Dheeraj Maithani