Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 13 सितंबरमासः (हि.स.)।केन्द्रीयगृहमन्त्री सहकारितामन्त्री च अमितशाहः सोमवासरे मुम्बईनगरे हिन्दी-दिवसस्य षष्ठस्य च अखिलभारतीयराजभाषासम्मेलनस्य उद्घाटनसत्रं सम्बोधयिष्यति। द्विदिवसीये सम्मेलने राजभाषायाः हिन्दीभाषायाश्च विकासः, भारतीयभाषाभिः सह समन्वयः, भाषा प्रौद्योगिकी च, अनुवादः तथा हिन्दीभाषायाः व्यापकप्रसारः इत्येतेषां विषयाणां सम्बन्धे चर्चाः भविष्यन्ति। उद्घाटनसत्रे वर्षस्य २०२५-२६ तमस्य ‘राजभाषागौरव’ तथा ‘राजभाषाकीर्ति’ पुरस्काराः अपि प्रदास्यन्ते।
केन्द्रीयगृहमन्त्रालयस्य अनुसारं मन्त्रालयस्य राजभाषाविभागः २०२१ तमवर्षात् प्रतिवर्षम् अखिलभारतीयराजभाषासम्मेलनम् आयोजयति। वाराणसीतः प्रारब्धा एषा यात्रा सूरत्, पुणे, नवदेहली, गान्धीनगरं च अतिक्रम्य अस्मिन् वर्षे महाराष्ट्रं प्राप्तवती अस्ति। सम्मेलने महाराष्ट्रस्य मुख्यमन्त्री, उभौ उपमुख्यमन्त्रिणौ, सांसदाः, विद्वांसः, साहित्यकाराः, शिक्षाविदः, केन्द्रसर्वकारस्य विभिन्नमन्त्रालयानां विभागानां च वरिष्ठाधिकारिणश्च सम्मिलिष्यन्ति।
सम्मेलनस्य उद्घाटनसत्रे राजभाषाक्षेत्रे उत्कृष्टकार्याय उल्लेखनीययोगदानाय च संस्थाभ्यः व्यक्तिभ्यश्च वर्षस्य २०२५-२६ तमस्य ‘राजभाषागौरव’ तथा ‘राजभाषाकीर्ति’ पुरस्काराः प्रदास्यन्ते।
सम्मेलने अनेकानां पुस्तकानां प्रकाशनानां च लोकार्पणमपि भविष्यति। तेषु राष्ट्रगीते ‘वन्देमातरम्’ इत्यस्मिन् केन्द्रितस्य राजभाषाविभागस्य ‘राजभाषाभारती’ इति पत्रिकायाः विशेषस्मारिका, ‘भारतीयज्ञानतन्त्रम् — स्रोतांसि स्वरूपं च’, ‘शिवः अनादिः, अनन्तश्च’ तथा कारागारबन्दिनां रचनानां सङ्कलनम् ‘अन्धकारेभ्यः प्रकाशपर्यन्तम्’ इत्येते प्रमुखाः सन्ति।
सम्मेलनस्य प्रमुखाकर्षणं ‘वन्देमातरम्’ इत्यस्मिन् विषये विशेषविचारसत्रं भविष्यति। अस्मिन् पार्श्वगायकः हरिहरन्, वरिष्ठपत्रकारः लेखकश्च नीलेशमिश्रः तथा ‘वन्देमातरम्’ इत्यस्य अध्ययनं कुर्वन् अखिलेशमिश्रश्च भागं ग्रहीष्यन्ति। तदतिरिक्तं शोधकर्ता मिलिन्दप्रभाकरसबनीसः राष्ट्रगीतस्य ऐतिहासिकं, साहित्यिकं सांस्कृतिकं च पक्षं प्रति चर्चां करिष्यति। ‘वन्देमातरम्’ इत्यस्य रचयिता बङ्किमचन्द्रचट्टोपाध्यायस्य पञ्चमपीढ्याः वंशजः जयदीपचट्टोपाध्यायः अपि कार्यक्रमे उपस्थितः भविष्यति।
सम्मेलने नगरराजभाषाकार्यान्वयनसमितीनां भूमिकायाः विषये अपि विशेषसत्रं भविष्यति। अस्मिन् राजभाषायाः हिन्दीभाषायाः कार्यान्वयने समितीनां कार्याणां उपलब्धीनां च विषये चर्चा भविष्यति तथा उत्कृष्टकार्यं कुर्वतीभ्यः समितिभ्यः सम्मानः प्रदास्यते।
१५ सितम्बरदिने सम्मेलनस्य द्वितीयदिने गीतकारः लेखकश्च मनोजमुन्तशिरः विशेषसत्रे भागं ग्रहीष्यति। ततः महाराष्ट्रसर्वकारस्य पक्षतः सांस्कृतिककार्यक्रमः आयोजितः भविष्यति, यस्मिन् राज्यस्य सांस्कृतिकानां कलात्मकानां च परम्पराणां प्रस्तुतीकरणं भविष्यति।
सम्मेलनस्थले आयोज्यमाने प्रदर्शने विभिन्नसंस्थाभिः, सङ्गठनैः, वित्तकोषैः मन्त्रालयैश्च कुलतः ३२ प्रदर्शनकक्षाः स्थापिताः भविष्यन्ति। एतेषु हिन्दीभाषया भारतीयभाषाभिश्च सम्बद्धानि कार्याणि, प्रकाशनानि, उपक्रमाः उपलब्धयश्च प्रदर्शिताः भविष्यन्ति।
द्विदिवसीये सम्मेलने हिन्दीभाषां राजभाषारूपेण, जनभाषारूपेण सम्पर्कभाषारूपेण च विकसितुं, भारतीयभाषाभिः सह तस्याः समन्वयं, प्रौद्योगिक्याः भाषायाश्च सम्बन्धं, अनुवादं, साहित्यं हिन्दीभाषायाः प्रसारं च इत्येतेषां विषयाणां विषये विचारविमर्शः भविष्यति। संविधानस्य ३४३ तमे अनुच्छेदे सङ्घस्य राजभाषा हिन्दी तथा लिपिः देवनागरी इति निर्धारितम् अस्ति, यदा ३५१ तमे अनुच्छेदे हिन्दीभाषायाः प्रसारस्य, विकासस्य समृद्धेश्च दायित्वं सङ्घस्य उपरि स्थापितम् अस्ति। सम्मेलनं एतस्य संवैधानिकदायित्वस्य अनुरूपं हिन्दीभाषायाः अन्यासां भारतीयभाषाणां च मध्ये संवादं सहभागितां च सुदृढां कर्तुं विशेषं बलं दास्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani