हॉकी इण्डियायाः महानिदेशकः आर.के. श्रीवास्तवः निलम्बितः, कर्तव्ये शैथिल्यस्य आरोपः
नवदिल्ली, 12 सितंबर मासः(हि.स.)।हॉकी इण्डियायाः अध्यक्षेण दिलीप टिर्की महोदयेन सङ्गठनस्य महानिदेशकस्य कमाण्डर आर के श्रीवास्तवस्य विरुद्धं अनुशासनात्मककार्यवाही आरब्धा, तस्मै कारणदर्शकसूचना च प्रेषिता। तेन सह तं तत्कालप्रभावात् महानिदेशकपदसम्बद्धान
हॉकी इण्डियायाः महानिदेशकः आर.के. श्रीवास्तवः निलम्बितः, कर्तव्ये शैथिल्यस्य आरोपः


नवदिल्ली, 12 सितंबर मासः(हि.स.)।हॉकी इण्डियायाः अध्यक्षेण दिलीप टिर्की महोदयेन सङ्गठनस्य महानिदेशकस्य कमाण्डर आर के श्रीवास्तवस्य विरुद्धं अनुशासनात्मककार्यवाही आरब्धा, तस्मै कारणदर्शकसूचना च प्रेषिता। तेन सह तं तत्कालप्रभावात् महानिदेशकपदसम्बद्धानि सर्वाणि दायित्वानि अधिकारांश्च प्रयुक्तुं स्थगयितुं निर्देशः प्रदत्तः।

कारणदर्शकसूचनायां श्रीवास्तवस्य उपरि कर्तव्ये लापरवाही, जानबूझकर निर्देशाणाम् अवहेलना इत्यादयः अनेकाः आरोपाः स्थापिताः सन्ति। एतेषु विश्वकपस्य पूर्वं पूर्वानुमतिं विना राष्ट्रियदलस्य जर्सीवर्णेषु परिवर्तनस्य निर्णयः प्रमुखः अस्ति।

सूचनानुसारं टिर्कीमहोदयस्य स्पष्टनिर्देशानाम् अनन्तरमपि श्रीवास्तवस्य विश्वकपाय यात्रां कर्तुं सम्बन्धे अपि आपत्तिः प्रदर्शिता अस्ति। अध्यक्षकार्यालयेन तस्य स्थाने पूर्वक्रीडकाः सुबद्रा प्रधान, रानी रामपाल तथा सरदारसिंह च चयनकर्तृरूपेण कनिष्ठप्रशिक्षकरूपेण च यात्रायै अनुमोदिताः आसन्, किन्तु सूचनायां उक्तं यत् श्रीवास्तवाय अस्याः व्यवस्थायाः सूचना न प्रदत्ता।

श्रीवास्तवस्य उपरि हॉकी इण्डिया लीगसम्बद्धे फ्रेञ्चाइजीसमन्वये प्राथमिकताप्राप्तेषु कार्येषु च कथितरूपेण स्वेच्छया निर्णयान् कर्तुम् अपि आरोपः अस्ति। तदतिरिक्तं अनुबन्धितस्य जनसम्पर्क-अभिकरणस्य विरुद्धं निर्देशितां अनुशासनात्मककार्यवाहीं न कृतवतः तथा दक्षिणाफ्रिकादेशस्य यात्राकाले क्रीडकानां मुख्यप्रशिक्षकस्य क्रेग फुल्टनस्य च सम्बन्धे कथितदुर्व्यवहारस्य शिकायतासु कार्यवाहीकृतस्य प्रमाणं न प्रस्तुतवतः इत्यादयः आरोपाः अपि तस्मिन् स्थापिताः सन्ति।

सूचनायां विक्रमपालसम्बद्धेषु आरोपेषु आन्तरिकसमितेः अथवा पीओएसएचसमितेः कार्यवाही तथा प्रतिवेदनं अभिलेखे उपलब्धं नास्ति इत्यस्य तथा अन्तर्राष्ट्रीयहॉकीमहासङ्घात्, एशियाईहॉकीमहासङ्घात् राष्ट्रियमहासङ्घेभ्यश्च प्राप्तेषु केषुचित् पत्रव्यवहारेषु सूचनासु वा अवरोधः कृतः इत्यस्य अपि उल्लेखः अस्ति।

हॉकी इण्डियया उक्तं यत् अग्रिमा कार्यवाही संस्थायाः उपनियमानुसारं करिष्यते। श्रीवास्तवाय सर्वान् आधिकारिकान् अभिलेखान्, दस्तावेजान्, सञ्चिकाः, प्रवेशप्रमाणपत्राणि, सम्पत्तयः तथा लम्बितप्रकरणानां परिचालनभारं च अध्यक्षकार्यालयेन नामिताय अधिकारिणे समर्पयितुं निर्देशः प्रदत्तः।

----------------------

Hindusthan Samachar / Dheeraj Maithani