भारतेन चीनः १ ० इति गोलान्तरेण पराजित्य महिला-कनिष्ठ-हॉकी-एशियाचषको विजितो, निरन्तरं तृतीयवारं विजयी
मोकी (चीनः), 13 सितंबरमासः (हि.स.)।भारतीयकनिष्ठमहिलाहॉकीदलेन रविवासरे आयोजकदेशस्य चीनस्य दलं १ ० इति गोलान्तरेण पराजित्य एएचएफ कनिष्ठ एशियाकप २०२६ इत्यस्य खिताबः स्वनाम्नि कृतः। अस्याः विजयस्य सह भारतीयदलेन निरन्तरं तृतीयवारं महिला कनिष्ठ एशियाकपस्
भारतीय जूनियर महिला हॉकी टीम


मोकी (चीनः), 13 सितंबरमासः (हि.स.)।भारतीयकनिष्ठमहिलाहॉकीदलेन रविवासरे आयोजकदेशस्य चीनस्य दलं १ ० इति गोलान्तरेण पराजित्य एएचएफ कनिष्ठ एशियाकप २०२६ इत्यस्य खिताबः स्वनाम्नि कृतः। अस्याः विजयस्य सह भारतीयदलेन निरन्तरं तृतीयवारं महिला कनिष्ठ एशियाकपस्य खिताबं विजित्य खिताबी हैट्रिक पूर्णा कृता। तदनन्तरं भारतीयदलेन एफआईएच कनिष्ठमहिला विश्वकपाय अपि अर्हता प्राप्ता।

भारतस्य विजयस्य नायिका सानिका चन्द्रकान्तमाने अभवत्, यया क्रीडायाः १७ तमे निमिषे उत्कृष्टं गोलं कृत्वा दलाय अग्रता प्रदत्ता। तस्याः गोलः अन्तपर्यन्तं निर्णायकः सिद्धः अभवत्।

भारतीयदलस्य अस्याः ऐतिहासिकसिद्धेः उपलक्ष्ये हॉकी इण्डियया अपि पुरस्कारस्य घोषणा कृता अस्ति। दलस्य प्रत्येकस्याः क्रीडिकायै ३ लक्षरूप्यकाणि, सहायिकाकर्मचारिणः प्रत्येकस्य सदस्यस्य च कृते १.५ लक्षरूप्यकाणां पुरस्कारराशिः प्रदास्यते।

अन्तिमस्पर्धायाः आरम्भः अत्यन्तं सावधानतापूर्वकं अभवत्। उभयोः दलयोः उपरि दबावः स्पष्टतया दृश्यते स्म। चीनस्य कनिष्ठमहिलाहॉकीदलेन कन्दुकस्य अधिकं स्वामित्वं धारयित्वा भारतस्य उपरि दबावं निर्मातुं प्रयासः कृतः, किन्तु भारतीयरक्षापङ्क्त्या उत्कृष्टं संयमं प्रदर्शितम्। प्रथमचतुर्थांशे स्कोरः ० ० एव आसीत्।

द्वितीयचतुर्थांशस्य आरम्भे एव भारतं अग्रतां प्राप्तवान्। १७ तमे निमिषे सानिकया उत्कृष्टं गोलं कृत्वा भारतीयदलाय अग्रता प्रदत्ता। चीनाय समतां प्राप्तुं सर्वाधिकं अवसरः स्पर्धायाः एकमात्रे दण्डकोणे प्राप्तः, किन्तु तस्य प्रयासः गोलरूपेण परिणतं न शक्नोत्। अर्धकालपर्यन्तं भारतं १ ० इति अग्रे आसीत्।

तृतीयचतुर्थांशे चीनदलेन समतां प्राप्तुं आक्रामकरूपेण आरम्भः कृतः तथा गोलं कर्तुं प्रयासः कृतः, किन्तु गोलः न कर्तुं शकितः। अन्तिमचतुर्थांशः पूर्णतया भारतीय रक्षापङ्क्तेः नाम्ना अभवत्। भारतीयक्रीडिकाभिः स्वस्य क्रीडाक्षेत्रस्य समीपे अत्यन्तं अनुशासितं सुदृढं च रक्षात्मकं क्रीडनं प्रदर्शितम्। चीनदलेन निरन्तरं समतायै प्रयासः कृतः, किन्तु भारतीयरक्षापङ्क्तिं भेत्तुं तत् असफलम् अभवत्। अन्तिमसीटीवादनस्य सह भारतं १ ० इति शानदारविजयं प्राप्य ट्रॉफीं स्वनाम्नि कृतवान्।

भारतं सम्पूर्णे प्रतियोगितापर्याये एकमपि क्रीडां न पराजितवान्। दलेन एलीट् पूले त्रयः विजयाः एकश्च समतायाः सह शीर्षस्थानं प्राप्तम्। तदनन्तरं उपान्त्यस्पर्धायां दक्षिणकोरियादलं ५ १ इति गोलान्तरेण पराजितम् तथा अन्तिमस्पर्धायां चीनदलं १ ० इति गोलान्तरेण पराजित्य सपर्धायाः सफलतया रक्षणं कृतम्।

---------------

Hindusthan Samachar / Dheeraj Maithani