प्रधानमन्त्रिणः नेतृत्वे अद्य विश्वं भारतस्य उदयं पश्यति - मुख्यमन्त्री
पाटलिपुत्रम्, १३ सेप्टेम्बरमासः (हि.स.)। मुख्यमन्त्रिणा सम्राट् चौधरीवर्येण रविवासरे अत्र पाटलिपुत्रे सहायक-प्राध्यापकानां कार्यक्रमं सम्बोधयता उक्तं यत् ब्रिक्स-शिखरसम्मेलनस्य माध्यमेन प्रधानमन्त्रिणः नेतृत्वे अद्य विश्वं भारतस्य उदयं पश्यति। भारत
सहायक प्रध्यपकों के कार्यक्रम में अपने सम्बोधन के दौरान मुख्यमंत्री


पाटलिपुत्रम्, १३ सेप्टेम्बरमासः (हि.स.)। मुख्यमन्त्रिणा सम्राट् चौधरीवर्येण रविवासरे अत्र पाटलिपुत्रे सहायक-प्राध्यापकानां कार्यक्रमं सम्बोधयता उक्तं यत् ब्रिक्स-शिखरसम्मेलनस्य माध्यमेन प्रधानमन्त्रिणः नेतृत्वे अद्य विश्वं भारतस्य उदयं पश्यति। भारतम् अधुना वैश्विक-विषयेषु केवलं स्वमतं प्रस्तुतं कुर्वन् देशः न, अपितु विश्वाय दिशां प्रदातुं सामूहिकसमाधानानि च प्रस्तोतुं समर्था महत्त्वपूर्णा शक्तिः इव उदेति।

मुख्यमन्त्रिणा उक्तं यत् ब्रिक्स-शिखरसम्मेलने भारतस्य अध्यक्षतया अस्याः वर्धमानायाः वैश्विकभूमिकायाः अधिकं सुदृढीकरणं जातम्। तेन उक्तं यत् वर्तमानवैश्विकपरिस्थितिषु शान्तेः, सहयोगस्य संवादस्य च आवश्यकता पूर्वस्मादपि अधिका अस्ति। ब्रिक्स-देशैः बहुपक्षवादस्य, अन्ताराष्ट्रियसहयोगस्य, अधिकन्यायपूर्णायाः सन्तुलितायाश्च वैश्विकव्यवस्थां प्रति प्रतिबद्धता व्यक्ता इति सम्पूर्णविश्वाय महत्त्वपूर्णः सन्देशः अस्ति।

मुख्यमन्त्रिणा उक्तं यत् भारतस्य अध्यक्षतायाम् आयोजितं अष्टादशतमं ब्रिक्स-शिखरसम्मेलनं प्रधानमन्त्रिणः मोदिनः सशक्तस्य, समावेशिनः दूरदर्शिनश्च नेतृत्वस्य ऐतिहासिकम् उदाहरणम् इव उद्भूतम् अस्ति। वैश्विकभूराजनीतिक-तनावानाम् आर्थिकानिश्चिततानां च मध्ये प्रधानमन्त्रिणा नरेन्द्रमोदिना कुशल-कूटनीत्या सर्वान् सदस्यदेशान् एकस्मिन् मञ्चे आनीय सर्वसम्मत्या ‘नवदिल्ली-निर्णयपत्रं’ पारितं कारितम्, यत् भारतस्य वर्धमानस्य वैश्विकप्रभावस्य प्रतीकम् अस्ति।

तेन संयुक्तराष्ट्रसंघे वैश्विकसंस्थासु च सुधाराणां समर्थनं कृत्वा ‘ग्लोबल साउथ’-देशानां स्वरं दृढतया उत्थापितम्। तस्य नेतृत्वे ब्रिक्स्-मञ्चेन वैश्विक-आर्थिकस्थैर्याय सुरक्षितां निरन्तरां च ऊर्जापूर्तिं सुनिश्चितुं विशेषं बलं दत्तम्। तथैव प्राचीनधरोहराणां मूलदेशेभ्यः प्रत्या-वर्तनस्य संकल्पं समावेश्य सांस्कृतिक-सार्वभौमत्वस्य सम्मानं सुनिश्चितं कृतम्।

मुख्यमन्त्रिणा उक्तं यत् संयुक्तराष्ट्र-सुरक्षापरिषदि भारतस्य ब्राजीलस्य च स्थायी-सदस्यतायाः समर्थनात् वैश्विकशासनव्यवस्थायां विकासशील-देशानां वर्धमानभूमिकायै बलं प्राप्तम् अस्ति। भारतं दीर्घकालात् अन्ताराष्ट्रिय-संस्थानि अधिकप्रतिनिधित्व-पूर्णानि, लोकतान्त्रिकानि वर्तमानवैश्विक-वास्तविकतानुरूपाणि च कर्तुं आवश्यकतायै बलं ददाति।

मुख्यमन्त्रिणा आतङ्कवादस्य विरुद्धं ब्रिक्स-देशानां स्पष्टस्य दृढस्य च पगस्य अपि स्वागतं कृतम्। तेन उक्तं यत् २२ एप्रिल २०२५ दिनाङ्के जम्मू-कश्मीरस्य पहलगामे जाते आतङ्कवादी-आक्रमणे कठोरनिन्दा तथा च आतङ्कवादस्य सर्वेषां रूपाणां पद्धतिनां च विरुद्धं कार्यवाहीकर्तुं प्रतिबद्धता आतङ्कवादस्य विरुद्धं वैश्विकैकतायाः महत्त्वपूर्णः सन्देशः अस्ति। आतङ्कवादस्य वित्तपोषणस्य, आतङ्क-वादिनां सीमापारगमनस्य, तेभ्यः सुरक्षिताश्रयस्थानप्रदानस्य च विरुद्धं निर्णायककार्यवाही आवश्यकाऽस्ति।

मुख्यमन्त्रिणा उक्तं यत् वैश्विक-अर्थव्यवस्थायां वर्धमानायाम् अनिश्चित-तायां नियमाधारितायाः, मुक्तायाः निष्पक्षायाश्च व्यापारव्यवस्थायाः आवश्य-कता कालस्य अपेक्षा अस्ति। तेन उक्तं यत् कृत्रिमबुद्धिमत्ता, डिजिटल लोकसंरचना, क्वाण्टम्-प्रौद्योगिकी, नवाचारः च इत्येतेषु क्षेत्रेषु ब्रिक्स-देशानां मध्ये सहयोगः भविष्यस्य अर्थव्यवस्थायै नूतनां दिशां प्रदास्यति। भारतस्य प्रौद्योगिकीयक्षमतायाः डिजिटल लोकसंरचनायाः च अनुभवेन विकास-शीलदेशेभ्यः व्यापकः लाभः प्राप्तुं शक्नोति। मुख्यमन्त्रिणा उक्तं यत् प्रधानमन्त्रिणः श्रीनरेन्द्रमोदिनः नेतृत्वे भारतस्य वर्धमानः प्रभावः प्रत्येकं भारतीयस्य कृते गौरवस्य विषयः अस्ति।

Hindusthan Samachar / Divya Ranjan