Enter your Email Address to subscribe to our newsletters

कोलकाता, १३ सेप्टेम्बरमासः (हि.स.)। पश्चिमबङ्गालस्य मुख्यमन्त्री शुभेन्दु-अधिकारी रविवासरे स्वातन्त्र्यसङ्ग्रामस्य महत: क्रान्तिकारिण: बलिदानिन: जतिन्द्रनाथदासस्य बलिदानदिवसे तस्मै श्रद्धाञ्जलिं समर्पितवान्। सः सामाजिक-माध्यमे सन्देशं प्रसार्य अवदत् यत् जतिन्द्रनाथदासः साहसस्य, वीरतायाः स्वातन्त्र्यस्वरस्य च प्रतीकः अस्ति।
शुभेन्द्वधिकारी अवदत् यत् लाहौरकारागारे बन्दीभूतो जतिन्द्रनाथदासः अन्यैः क्रान्तिकारिभिः सह राजनैतिकबन्दिभ्यः क्रियमाणस्य अमानवीयव्यवहारस्य विरोधे ऐतिहासिकीं निराहारहडतालाम् आरब्ध-वान्। एतत् विरोधप्रदर्शनं ६३ दिनानि यावत् अभवत्। १३ सेप्टेम्बर् १९२९ तमे वर्षे निराहारविरोधस्य मध्ये सः अन्तिमश्वासं त्यक्त्वा देशस्य स्वातन्त्र्यार्थं स्वजीवनं दत्तवान्।
मुख्यमन्त्री अवदत् यत् जतिन्द्रनाथदासस्य आत्मबलिदानं भारतीयस्वातन्त्र्य-सङ्ग्रामस्य इतिहासे सदैव स्मरिष्यते। तस्य दृढता साहसं च स्वातन्त्र्यसेनानीभ्यः प्रेरणां दत्तवन्तौ। सः बलिदानीन: जतिन्द्रनाथ-दासस्य बलिदानाय नमनं कृतवान्।
जतिन्द्रनाथदासस्य जन्म २७ अक्तूबरमासे १९०४ तमे वर्षे कोलकातानगरे अभवत्। युवावस्थायामेव सः स्वातन्त्र्यसङ्ग्रामे संलग्नः अभवत्। पश्चात् सः भगतसिंहेन अन्यैः क्रान्तिकारिभिः च सह सम्पर्के आगतवान्। लाहौरषड्यन्त्रप्रकरणे निग्रहणान्तरं सः कारागारे राजनैतिक-बन्दिनाम् अधिकाराणां कृते निराहार-विरोधम् अकरोत्। तस्य निधनानन्तरं देशस्य सर्वत्र जनैः तस्मै श्रद्धाञ्जलिः समर्पिता।
Hindusthan Samachar / Divya Ranjan