ज्ञानं विचारधाराणां सीमाभ्यः मुक्तं स्थापयितुम् आवश्यकम् — अमितशाहः
मुंबई, 13 सितंबरमासः (हि.स.)। केन्द्रीयगृहमन्त्री अमितशाहः रविवासरे अवदत् यत् ज्ञानं कस्यापि विचारधारायाः सीमासु बद्धं न स्थापनीयम्। वास्तविकं ज्ञानं कदापि कस्याश्चित् विचारधारायाः बन्धकं न भवति। तस्य अवरोधरहितरूपेण विकासाय समाजे च प्रसाराय अवसरः प
फोटो: केंद्रीय मंत्री अमित शाह


मुंबई, 13 सितंबरमासः (हि.स.)। केन्द्रीयगृहमन्त्री अमितशाहः रविवासरे अवदत् यत् ज्ञानं कस्यापि विचारधारायाः सीमासु बद्धं न स्थापनीयम्। वास्तविकं ज्ञानं कदापि कस्याश्चित् विचारधारायाः बन्धकं न भवति। तस्य अवरोधरहितरूपेण विकासाय समाजे च प्रसाराय अवसरः प्रदातव्यः।

मुम्बईनगरे ‘गणेश ज्ञानार्थी’ इति प्रदर्शन्याः उद्घाटनसमारोहे सम्बोधनं कुर्वन् अमितशाहः अवदत् यत् ज्ञानं स्वयमेव एका विचारधारा अस्ति। यदि तत् कस्याश्चित् विशिष्टायाः विचारधारायाः सीमासु बद्धं क्रियते, तर्हि तस्य मूलस्वरूपं तस्य अर्थश्च सीमितौ भवतः। ज्ञानं तस्य प्रसारश्च उभौ स्वतन्त्रौ अबाधितौ च भवितुम् अर्हतः।

गृहमन्त्री अवदत् यत् अस्माभिः अस्यां चर्चायां निमग्नैः भवितुं स्थाने अग्रिमदिशायां ध्यानं दातव्यम्—एशियाटिक्-सोसाइटी किमर्थं स्थापिता, केन स्थापिता तथा तस्याः उद्देश्यम् किम् आसीत् इति। महत्त्वपूर्णं तु एतदस्ति यत् अत्र विद्यमानस्य सम्पदः, ज्ञानस्य सङ्ग्रहस्य च उपयोगः महान् भारतस्य निर्माणे कथं कर्तुं शक्यते।

अमितशाहः भारतस्य प्राचीनज्ञानपरम्परायाः उल्लेखं कुर्वन् अवदत् यत् तां नष्टुं पुनः पुनः कृतानाम् प्रयासानाम् अपि सा स्मृतिपरम्परया मौखिकपरम्परया च जीविता अवर्तत। नालन्दायाः उदाहरणं दत्त्वा सः अवदत् यत् कस्यचित् पुस्तकालयस्य दाहः कर्तुं शक्यते, किन्तु जनानां मनसि स्मृतिरूपेण श्रुतिरूपेण च सुरक्षितं ज्ञानं नष्टुं न शक्यते।

गृहमन्त्री अवदत् यत् नालन्दायाः पुस्तकालयः दग्धः, दीर्घकालं यावत् च तत्रतः धूमः उद्गच्छन् आसीत्; किन्तु भारतस्य ज्ञानपरम्परा जनानां स्मृतिषु मौखिकपरम्परायां च अक्षुण्णा अवर्तत। सः अवदत् यत् ये देशाः स्वकीयाः इतिहासं, स्मृतीः, मूल्यानि, भाषाः, अभिलेखान् परम्पराश्च संरक्षन्ति, ते सहजतया दासीकर्तुं न शक्यन्ते।

शाहः अवदत् यत् कश्चित् देशः कियत् अपि शक्तिशाली भवेत्, यदि सः स्वकीयाः स्मृतीः, इतिहासं, मूल्यानि, भाषां, अभिलेखान् परम्पराश्च संरक्षितुं न शक्नोति, तर्हि तस्य पतनाय अधिकः कालः न अपेक्ष्यते। सः अवदत् यत् भारतस्य बौद्धिकपरम्पराणां ज्ञानस्य च दीर्घकालं यावत् औपनिवेशिकदृष्टिकोणेन अध्ययनं मूल्याङ्कनं च कृतम्।

अमितशाहः अवदत् यत् भारतस्य ज्ञानं दीर्घकालं यावत् भारतस्य स्वकीयया वाचा न लिखितम्, अपितु औपनिवेशिकदृष्टिकोणयुक्तया भाषया दृष्ट्या च तत् प्रस्तुतम्। सः बलपूर्वकम् अवदत् यत् भारतस्य ज्ञानपरम्परा अधुना स्वकीयेन दृष्टिकोणेन, इतिहासेन, बौद्धिकसन्दर्भैश्च सह अवगन्तव्या अग्रे च वर्धनीया।-----------

Hindusthan Samachar / Dheeraj Maithani