मध्यप्रदेशस्य मुख्यमन्त्री डॉ. यादवः बुधवासरे प्रदेशस्य मेधावीविद्यार्थिभ्यः ई-स्कूटीयानं प्रदास्यति
— गुणवत्तासूच्यां स्थानं प्राप्तेभ्यः ७५०० अधिकविद्यार्थिभ्यः स्कूटीयानं प्रदास्यते भोपालम्, १३ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशे शासकीयेषु उच्चतरमाध्यमिक-विद्यालयेषु द्वादशकक्षायाम् उत्कृष्टप्रदर्शनं कृतवद्भ्यः विद्यार्थिभ्यः महत्त्वपूर्णं प्रो
सीएम मोहन यादव (फाइल फोटो)


— गुणवत्तासूच्यां स्थानं प्राप्तेभ्यः ७५०० अधिकविद्यार्थिभ्यः स्कूटीयानं प्रदास्यते

भोपालम्, १३ सेप्टेम्बरमासः (हि.स.)। मध्यप्रदेशे शासकीयेषु उच्चतरमाध्यमिक-विद्यालयेषु द्वादशकक्षायाम् उत्कृष्टप्रदर्शनं कृतवद्भ्यः विद्यार्थिभ्यः महत्त्वपूर्णं प्रोत्साहनं प्रदास्यते। मुख्यमन्त्री डॉ. मोहनयादवः अग्रिमे १६ सेप्टेम्बरमासे ‘मुख्यमन्त्री-स्कूटी-योजनायाः’ अन्तर्गतं भोपालात् प्रदेशस्य मेधावीविद्यार्थिभ्यः ई-स्कूटीयानं वितरिष्यति।

जनसम्पर्काधिकारी सुनीलवर्मा रविवासरे सूचनां दत्त्वा अवदत् यत् ई-स्कूटीयानेन विद्यार्थिनां उच्चशिक्षायाः मार्गः सुगमः भविष्यति। महाविद्यालयं प्रति आगमन-गमनयोः अपि तेषां सुविधा भविष्यति। राज्यस्तरीयः स्कूटीयानवितरणकार्यक्रमः भोपालस्य शिवाजीनगरे स्थिते शासकीय-सुभाष-उत्कृष्ट-उच्चतरमाध्यमिक-विद्यालये प्रातः १० वादनात् भविष्यति।

सः अवदत् यत् मुख्यमन्त्री-स्कूटी-योजनायाः उद्देश्यं विद्यालयीयविद्यार्थिनः शैक्षणिकोपलब्धिनां प्राप्तये प्रोत्साहितुं वर्तते। योजनायाः लाभं प्राप्तुं विद्यार्थिना द्वादशकक्षायां प्रथमप्रयासे एव ७० प्रतिशताङ्कैः उत्तीर्णः भूत्वा विद्यालये प्रथमस्थानं प्राप्तव्यम्। प्रदेशसर्वकारेण सञ्चाल्यमानायाः अस्याः योजनायाः लाभः विद्यालयशिक्षाविभागस्य जनजातीयकार्य-विभागस्य च शासकीयेषु उच्चतर-माध्यमिकविद्यालयेषु नियमित-विद्यार्थिरूपेण अध्ययनं कुर्वद्भ्यः विद्यार्थिभ्यः दीयते। योजनायां सर्वेषां संकायानां विद्यार्थिनः समाविष्टाः सन्ति।

बुधवासरे ७५०० अधिकविद्यार्थिनः लाभान्विताः भविष्यन्ति

योजनायाः अन्तर्गतं शिक्षणसत्रे २०२५-२६ कृते प्रदेशस्य ७५०० अधिकाः पात्र-विद्यार्थिनः ई-स्कूटीयानं प्राप्स्यन्ति। मेधावीविद्यार्थिनः प्रोत्साहितुं प्रदेश-सर्वकारेण सञ्चाल्यमानायाः अस्याः योजनायाः अन्तर्गतं अद्यावधि प्रदेशस्य २३,००० अधिकाः पात्रविद्यार्थिनः लाभान्विताः अभवन्। योजनायाः सञ्चालनाय अद्यावधि प्रायः २४६ कोटिरूप्यकाणि व्ययितानि सन्ति। मुख्यमन्त्री-स्कूटी-योजना मेधावी-विद्यार्थिनां परिश्रमं उपलब्धिं च प्रोत्साहयितुं तथा अग्रिमशिक्षायै सुविधां प्रदातुं प्रदेशसर्वकारस्य महत्त्वपूर्णः प्रयासः अस्ति। शासकीयविद्यालयेषु अध्ययनं कुर्वद्भ्यः विद्यार्थिभ्यः उत्कृष्टप्रदर्शनाय प्रोत्साहनं दत्तेन शिक्षायाः प्रति तेषाम् उत्साहः वर्धते तथा उच्चशिक्षायां तेषां सहभागिता सुदृढा भवितुमपि साहाय्यं भवति।

Hindusthan Samachar / Divya Ranjan