Enter your Email Address to subscribe to our newsletters

जनजातीयमानवाधिकाराणां संरक्षणं तथा शासकीययोजनानां तेषां पर्यन्तं प्रापणं विषये मन्थनं भविष्यति
भोपालम्, १३ सेप्टेम्बरमासः (हि.स.)। मुख्यमन्त्री डॉ. मोहन यादवः अद्य रविवासरे भोपालस्थे आर.सी.व्ही.पी. नरोन्हा-प्रशासन-प्रबन्धकीय-अकादम्याः स्वर्णजयन्तीसभागारे आयोजितस्य मध्य-प्रदेशमानवाधिकारायोगस्य ३२तमस्य स्थापनादिवसस्य कार्यक्रमस्य शुभारम्भं करिष्यति।
जनसम्पर्काधिकारी के.के. जोशी इत्यनेन उक्तं यत् समारोहस्य मुख्यातिथिः मुख्यमन्त्री डॉ. यादवः भविष्यति तथा जनजातीयकार्य-मन्त्री कुँवरविजयशाहः विशिष्टातिथिः भविष्यति। कार्यक्रमस्य अध्यक्षतां आयोगस्य कार्यवाहकाध्यक्षः डॉ. अवधेशप्रतापसिंहः करिष्यति।
अनुसूचितजनजातिवर्गस्य मानवाधिकाराणां विषये विचारविमर्शः
कार्यक्रमे ‘अनुसूचितजनजातिवर्गस्य मानवाधिकाराणां संरक्षणं तथा शासकीययोजनानां तेषां पर्यन्तं प्रापणम्’ इति विषये वक्तारः उद्बोधनं प्रदास्यन्ति। तदनन्तरं प्रस्तुतीकरणस्य माध्यमेन जनजातीयकार्यविभागस्य विभिन्नानां योजनानां विषये सूचना प्रदास्यते। मिशन-कर्मयोग्यन्तर्गतं साधनासप्ताहे उत्कृष्टप्रदर्शनस्य कृते जनजातीय-कार्यविभागस्य उत्कृष्टेभ्यः अधिकारिभ्यः कर्मिभ्यश्च प्रशस्तिपत्राणि प्रदास्यन्ते।
स्मारिकायाः दैनन्दिन्याश्च विमोचनम्
मुख्यमन्त्री डॉ. यादवः तथा कार्यक्रमस्य अतिथयः मध्यप्रदेशमानवाधिकारायोगेन, भोपालद्वारा प्रकाशितस्य विषयाधारितस्य ‘स्मारिकायाः’ बहुउपयोगिन्याः दैनन्दिन्याश्च विमोचनं करिष्यन्ति। स्मारिकायां विभिन्नैः लेखकैः लिखिताः विषयाधारिताः लेखाः सन्ति। तत्र जनजातीयवर्गस्य मानवाधिकाराणां संरक्षण-संवर्धनयोः तथा विभिन्नानां शासकीययोजनानां तेषां पर्यन्तं प्रापणस्य सम्बन्धिनी सूचना अपि समाविष्टा अस्ति।
जनजातीयप्रतिनिधयः विद्यार्थिनश्च सम्मिलिष्यन्ति
कार्यक्रमे मध्यप्रदेशराज्य-अनुसूचितजन-जात्यायोगस्य अध्यक्षः रामलालरौतेलः, जनजातीयकार्य-विभागस्य प्रमुखसचिवः गुलशन बामरा, आयुक्तः तरुण: राठी इत्यादयः उपस्थिताः भविष्यन्ति। तदतिरिक्तं मानवाधिकारा-योगस्य तथा जनजातीय-कार्यविभागस्य वरिष्ठाः अधिकारिणः कर्मचारिणश्च, विभागीय-हितग्राहिणः, स्वयंसेवीसंस्थानां प्रतिनिधयः तथा जनजातीयवर्गस्य विद्यार्थिनः अपि कार्यक्रमे सम्मिलिताः भविष्यन्ति।
Hindusthan Samachar / Divya Ranjan