नयागढ़े नीलमाधव मंदिरस्य विकासस्य योजनानां मंत्री हरिचंदनः अकरोत् समीक्षाम्
भुवनेश्वरम्, 13 सितंबरमासः (हि.स.)। ओडिशाराज्यस्य विधिमन्त्री पृथ्वीराज हरिचन्दनः रविवासरे नयागढमण्डलस्य कन्टिलोस्थितस्य ऐतिहासिकस्य श्रीनीलमाधवमन्दिरस्य दर्शनं कृत्वा मन्दिरस्य विकासस्य सौन्दर्यीकरणस्य च तथा श्रद्धालूनां पर्यटकानां च सुविधाविस्ता
नयागढ़ में नीलमाधव मंदिर के विकास की योजनाओं की मंत्री हरिचंदन ने की समीक्षा


भुवनेश्वरम्, 13 सितंबरमासः (हि.स.)।

ओडिशाराज्यस्य विधिमन्त्री पृथ्वीराज हरिचन्दनः रविवासरे नयागढमण्डलस्य कन्टिलोस्थितस्य ऐतिहासिकस्य श्रीनीलमाधवमन्दिरस्य दर्शनं कृत्वा मन्दिरस्य विकासस्य सौन्दर्यीकरणस्य च तथा श्रद्धालूनां पर्यटकानां च सुविधाविस्तारस्य योजनानां समीक्षां कृतवान्। अस्मिन् अवसरे मन्त्री हरिचन्दनेन कटकस्य सांसदेन भर्तृहरिमहताबेन, खण्डपडाविधानसभासदस्येन नयागढमण्डलयोजनामण्डलस्य अध्यक्षेन च दुष्मन्तकुमारस्वाईं-महोदयेन, नयागढस्य जिलाधिकारीया मधुमिता रथया, सम्बन्धितविभागानाम् अधिकारिभिः स्थानीयबुद्धिजीविभिश्च सह मन्दिरस्य विकासविषये विस्तृता चर्चा कृता।

सभायां प्राचीनस्य आध्यात्मिकपीठस्य आधारभूतसंरचनां सुदृढीकर्तुं, सौन्दर्यीकरणं कर्तुं तथा श्रद्धालूनां पर्यटकानां च कृते उत्तमसुविधाः विकसितुं सम्बद्धेषु विभिन्नेषु पक्षेषु विचारविमर्शः कृतः। हरिचन्दनेन उक्तं यत् नीलमाधवमन्दिरं प्रमुखरूपेण आध्यात्मिक-पर्यटनकेन्द्ररूपेण विकसितुं तथा श्रद्धालुभ्यः उत्तमसुविधानां सुनिश्चितीकरणं सर्वकारस्य प्राथमिकता अस्ति। तेन उक्तं यत् प्रस्तावितविकासकार्यैः अस्य ऐतिहासिकस्य मन्दिरस्य धार्मिकपर्यटनसम्बद्धा च परिचितिः अधिकं सुदृढा भविष्यति।

---------------

Hindusthan Samachar / अंशु गुप्ता