Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १३ सेप्टेम्बरमासः (हि.स.)। राष्ट्रियमानवाधिकारायोगः विदेश-मन्त्रालयस्य सहयोगेन ग्लोबल साउथ-देशानां राष्ट्रियमानवाधिकार-संस्थानां वरिष्ठाधिकारिणां कृते षड्दिवसीयं विशेषं क्षमतानिर्माण-कार्यक्रमम् आयोजयिष्यति। भारतीय-तकनीकी-आर्थिक-सहयोगस्य अन्तर्गतम् आयोजितः अयं कार्यकारीकार्यक्रमः १४ तः १९ सेप्टेम्बरपर्यन्तं नवदिल्ली इत्यत्र भविष्यति। एनएचआरसी-अध्यक्षः न्याय-मूर्तिः वी. रामसुब्रह्मण्यम् सोमवासरे अस्य कार्यक्रमस्य औपचारिकम् उद्घाटनं करिष्यति।
एनएचआरसी-अनुसारम्, अस्य षड्दिवसीयकार्यक्रमस्य प्रमुखोद्देश्यं प्रतिभागिदेशानां मानवाधिकारसंस्थानानां कार्यक्षमतां सुदृढां कर्तुं तथा मानवा-धिकाराणां संरक्षणस्य संवर्धनस्य च कृते सर्वोत्तमप्रथानां अनुभवानां च परस्परं विनिमयं कर्तुम् अस्ति। आयोगेन पूर्वं आयोजितेभ्यः चतुर्षु आईटीईसी-क्षमता-निर्माणकार्यक्रमेभ्यः प्राप्तं प्रतिक्रियाभिः प्रतिभागिसंस्थानां आवश्यकताभिः च सह अस्य विशेषपाठ्यक्रमस्य निर्माणं कृतम् अस्ति। अस्मिन् प्रशिक्षणसम्मेलने १५ देशानां राष्ट्रियमानवाधिकारसंस्थानेभ्यः ४१ वरिष्ठाधिकारिणः भागं गृह्णन्ति।
प्रशिक्षणसत्रेषु अन्ताराष्ट्रियमानवाधिकार-नमूनाया: विकासः, समकालीन-मानवाधिकारसमस्या:, मानवाधिकाराः व्यापारश्च, नूतनप्रौद्योगिकीनां प्रभावः तथा सततविकासः इत्यादिषु महत्त्वपूर्णविषयेषु गहनविमर्शः भविष्यति। तदतिरिक्तं वैश्विकमानवाधिकारपरिप्रेक्ष्ये एनएच-आरसी इत्यस्य कार्यप्रणाली, सूचना-प्रबन्धनव्यवस्था तथा अन्वेषणतन्त्रस्य व्यावहारिकज्ञानमपि विदेशीयप्रतिनिधिभ्यः प्रदास्यते।
एनएचआरसी स्वस्य त्रिदशकाधिकसमृद्ध-संस्थागतानुभवानाम् आधारेण ग्लोबल साउथ-देशेषु मानवाधिकाराणां समर्थनाय, विधानानां प्रभाविप्रवर्तनाय तथा संस्थागतसुदृढीकरणाय पारस्परिक-सहयोगं प्रोत्साहयिष्यति। कार्यक्रमे सम्बन्धितविषयेषु विशेषज्ञाः स्रोतव्यक्ति-रूपेण मार्गदर्शनं करिष्यन्ति। व्याख्यानानां अतिरिक्तं प्रतिभाग्यधिकारिणां कृते व्यावहारिकसंवादसत्राणि, सांस्कृतिक-विनिमयः तथा क्षेत्रभ्रमणस्य अपि व्यवस्था कृता अस्ति।
Hindusthan Samachar / Divya Ranjan