नेपालस्य प्रधानसेनापतिः जनरलसिग्देलः अद्यतः चीनदेशस्य यात्रायां
काठमांडूः, 13 सितंबरमासः (हि.स.)। नेपालीसेनाप्रमुखस्य जनरल अशोकराजसिग्देलस्य अद्यतः चीनदेशस्य आधिकारिकयात्रा प्रारभ्यते। सेनाप्रमुखपदं प्राप्तानन्तरम् एषा तस्य प्रथमचीनयात्रा भविष्यति। अस्यां यात्रायां उभयोः देशयोः मध्ये सैन्यसम्बन्धानां सहयोगस्य
नेपाली सेना के प्रधान सेनापति जनरल अशोक राज सिग्देल


काठमांडूः, 13 सितंबरमासः (हि.स.)।

नेपालीसेनाप्रमुखस्य जनरल अशोकराजसिग्देलस्य अद्यतः चीनदेशस्य आधिकारिकयात्रा प्रारभ्यते। सेनाप्रमुखपदं प्राप्तानन्तरम् एषा तस्य प्रथमचीनयात्रा भविष्यति। अस्यां यात्रायां उभयोः देशयोः मध्ये सैन्यसम्बन्धानां सहयोगस्य च विषये महत्त्वपूर्णा चर्चा सम्भाव्यते।

नेपालीसेनामुख्यालयस्य अनुसारं जनरलसिग्देलः त्रयोदशतः एकोनविंशतिसितम्बरपर्यन्तं चीनदेशस्य यात्रायां स्थास्यति। सः रविवासरे एयरचीनस्य विमानेन चीनदेशस्य छेन्दुनगरं प्रति प्रस्थास्यति। ज्ञातं यत् चीनदेशेन एकस्मिन् अन्तर्राष्ट्रीयसैन्यकार्यक्रमे सहभागितार्थं शताधिकदेशानां सेनाप्रमुखाः सैन्यप्रतिनिधयश्च आमन्त्रिताः सन्ति। जनरलसिग्देलः अस्मिन्नेव कार्यक्रमे सहभागितार्थं चीनदेशं गच्छति।

नेपालचीनयोः सेनयोः मध्ये संयुक्तसैन्याभ्यासः प्रशिक्षणम् आपदाप्रबन्धनं मानवीयसहायता च इत्यादिषु क्षेत्रेषु सहयोगः भवति। अतः नेपालीसेनाप्रमुखस्य एषा यात्रा उभयोः देशयोः सैन्यसम्बन्धानां दृष्ट्या महत्त्वपूर्णा मन्यते।

जनरलसिग्देलः एकोनविंशतिसितम्बरदिने नेपालं प्रत्यागमिष्यति। तस्य एषा यात्रा नेपालस्य परिवर्तमानानां क्षेत्रीयसुरक्षापरिस्थितीनां तथा समीपस्थदेशैः सह सैन्यसम्बन्धान् सुदृढीकर्तुं प्रयत्नस्य सन्दर्भे अपि महत्त्वपूर्णा मन्यते।

---------------

Hindusthan Samachar / Dheeraj Maithani