ब्रिक्स्-समाधानानां पारिस्थितिकीतन्त्रम्, विश्वस्य महत्यः अपेक्षाः — प्रधानमन्त्री मोदी।
नव दिल्ली, 13 सितंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी १८ तमे ब्रिक्स्-शिखरसम्मेलनस्य समापनसत्रे सर्वेषां देशानां सक्रियसहभागितायै महत्त्वपूर्णयोगदानाय च कृतज्ञतां व्यक्तवान्। सः अवदत् यत् गतद्विदिनयोः चर्चाभिः एषः विश्वासः अधिकं दृढः अभवत
प्रधानमंत्री संबोधित करते हुए


नव दिल्ली, 13 सितंबरमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्रमोदी १८ तमे ब्रिक्स्-शिखरसम्मेलनस्य समापनसत्रे सर्वेषां देशानां सक्रियसहभागितायै महत्त्वपूर्णयोगदानाय च कृतज्ञतां व्यक्तवान्। सः अवदत् यत् गतद्विदिनयोः चर्चाभिः एषः विश्वासः अधिकं दृढः अभवत् यत् ब्रिक्स् केवलं देशानां समूहः न, अपितु समाधानानाम् एकं पारिस्थितिकीतन्त्रम् अस्ति।

प्रधानमन्त्री अवदत् यत् सम्मेलने स्वीकृता ‘नवदिल्लीघोषणा’ साझा-दृष्टिकोणाय भविष्ये सहकार्यार्थं च स्पष्टां दिशां प्रदास्यति। सः अवदत् यत् ब्रिक्स्-मञ्चे सम्पन्नानां चर्चानां निर्धारितानां परिणामानां च समयबद्धक्रियान्वयनेन अन्तिमस्तरपर्यन्तं प्रभावेण च संयोजनम् आवश्यकम् अस्ति।

सः अवदत्, “ब्रिक्स् स्वस्य तृतीयदशके प्रवेशं कर्तुम् उद्यतः अस्ति। विश्वम् अधुना अस्माभ्यः केवलं विचारान् प्रतिबद्धताः च न, अपितु ठोसपरिणामान् अपि अपेक्षते। अहं विश्वसिमि यत् अस्माकं सामूहिकप्रयत्नैः वयं निश्चितरूपेण एतासाम् अपेक्षाणां पूर्तिं करिष्यामः।” सः ब्रिक्स्-सङ्घस्य आगामी आतिथेयदेशरूपेण चीनदेशाय शुभकामनाः अर्पितवान्।

सः अवदत् यत् ब्रिक्स्-सङ्घस्य संरचना केवलं पत्रेषु सञ्चिकासु वा सीमिता न भवेत्, अपितु भूमौ वास्तविकपरिवर्तनं प्रभावश्च दृश्येताम्। प्रधानमन्त्री अवदत् यत् सर्वे देशाः संयुक्तरूपेण एतेषां लक्ष्याणां प्राप्तये कार्यं करिष्यन्ति।

सः अवदत् यत् सर्वेषां प्रतिभागिनां विचारैः सुझावैश्च सहकारस्य व्यापकं गहनं च कर्तुं योगदानं दत्तम्। तेषां उपस्थितिः ब्रिक्स्-सङ्घस्य वर्धमानां प्रासङ्गिकतां, उदारतां समावेशितां च प्रदर्शयति।

---------------

Hindusthan Samachar / Dheeraj Maithani