Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 13 सितंबरमासः (हि.स.)।
रूसदेशस्य राष्ट्रपतिः व्लादिमीरपुतिनः भारतस्य राजधानीस्थे भारतमण्डपे भारतस्य अध्यक्षतायाम् आयोजितस्य अष्टादशतमस्य ब्रिक्सशिखरसम्मेलनस्य २०२६ इत्यस्य द्वितीयदिने रविवासरे ब्रिक्सदेशानां मध्ये नूतनबीमाव्यवस्थायाः धान्यविपणनस्य च कृते संयुक्तोपक्रमस्य प्रस्तावं प्रस्तुतवान्। तेन सह सः गम्भीरवैश्विकपरिस्थितीनां समाधानाय समूहं समग्रदृष्टिकोणम् अवलम्बितुं आहूतवान्।
यूक्रेनयुद्धस्य विषये रूसदेशस्य विरुद्धं पाश्चात्यदेशैः आरोपितानां कठोरप्रतिबन्धानां मध्ये पुतिनः ब्रिक्सस्य सदस्यदेशैः सह ग्लोबलसाउथ इति विकासशीलदेशेष्वपि आर्थिकवृद्ध्यर्थं नूतनानाम् उपक्रमाणां प्रस्तावं प्रस्तुतवान्। अष्टादशतमस्य ब्रिक्सशिखरसम्मेलनस्य समापनसत्रे पुतिनः अवदत् यत् अस्माकं समीपे पूंजीश्रमप्रौद्योगिकीनां च स्वतन्त्रसञ्चारस्य मार्गाः अपि सन्ति। वस्तुतः वयं बाह्यदबावस्य चिन्तां विना कार्यं कर्तुं शक्नुमः।
सः अधिकविवरणं न दत्त्वा अवदत् यत् भविष्याय अस्माकं समीपे केचन आशाजनकाः उपक्रमाः सन्ति, यथा बीमाव्यवस्थायाः निर्माणं धान्यविपणनस्य च स्थापना। एते रूसदेशस्य प्रस्तावाः सन्ति तथा वयम् अन्यान् सर्वान् सदस्यदेशान् एतेषां लाभं स्वीकर्तुं आमन्त्रयेम।
पुतिनः नवविकासबैंकस्य कार्यप्रणाल्याः अपि प्रशंसां कृत्वा अवदत् यत् एषः एकशतचत्वारिंशत् अरब अमेरिकी डॉलरमूल्यानां परियोजनानां प्रबन्धनं करोति। नवविकासवित्तकोषः ब्रिक्सदेशैः स्थापितः बहुपक्षीयविकासवित्तकोषोऽस्ति।
भारतस्य अध्यक्षतायां नवदिल्ल्यां आयोजितस्य अष्टादशतमस्य ब्रिक्सशिखरसम्मेलनस्य सफलतया समापनानन्तरं राष्ट्रपतिः पुतिनः रविवासरे रूसदेशं प्रति प्रस्थितवान्।
उल्लेखनीयं यत् जी सप्तदेशैः यूरोपीयसङ्घेन ब्रिटेनदेशेन च पाश्चात्यकम्पनीभ्यः रूसीकच्चातैलस्य परिवहनं कुर्वतः कस्यापि पोतस्य बीमाकरणे कतिपयाः प्रतिबन्धाः शर्तैः सह आरोपिताः सन्ति। बीमाक्षेत्रसम्बद्धैः एतैः प्रतिबन्धैः रूसीकच्चातैलस्य निर्यातः प्रतिकूलरूपेण प्रभावितः अभवत्।
---------------
Hindusthan Samachar / Dheeraj Maithani