वृद्धानां सम्मानपूर्णजीवनाय केन्द्रसर्वकारेण १४२ नूतनवृद्धाश्रमाः अनुमोदिताः।
२.८८ लक्षाधिकेभ्यः जनानां प्राप्ता परिचर्यासुविधा नवदिल्ली, १३ सितम्बरमासः (हि.स.)। केन्द्रसर्वकारेण देशव्यापिनां वरिष्ठनागरिकाणां स्वास्थ्यसुरक्षां, कल्याणं गरिमापूर्णं च जीवनं सुनिश्चितं कर्तुं १४२ नूतनवरिष्ठनागरिकगृहाणि अर्थात् वृद्धाश्रमाः अनु
केंद्र ने बुजुर्गों के सम्मानजनक जीवन के लिए 142 नए वृद्धाश्रम किए मंजूर


२.८८ लक्षाधिकेभ्यः जनानां प्राप्ता परिचर्यासुविधा

नवदिल्ली, १३ सितम्बरमासः (हि.स.)। केन्द्रसर्वकारेण देशव्यापिनां वरिष्ठनागरिकाणां स्वास्थ्यसुरक्षां, कल्याणं गरिमापूर्णं च जीवनं सुनिश्चितं कर्तुं १४२ नूतनवरिष्ठनागरिकगृहाणि अर्थात् वृद्धाश्रमाः अनुमोदिताः। अधुना यावत् २.८८ लक्षाधिकेभ्यः वृद्धेभ्यः आश्रयः, पौष्टिकभोजनम्, स्वास्थ्यपरीक्षणं, भौतिकचिकित्सा च इत्यादीनि आवश्यकसहायतासेवाः प्रदत्ताः।

केन्द्रीयसामाजिकन्यायाधिकारितामन्त्रालयस्य अनुसारं वरिष्ठनागरिकाणां जीवनस्तरस्य उन्नयनाय, दैनन्दिनपरिचर्यायाः सुविधां प्रदातुं, तान् स्वतन्त्रजीवनं यापयितुं समर्थान् कर्तुं च बहुआयामी उपायाः क्रियन्ते। नूतनतया अनुमोदितेभ्यः वरिष्ठनागरिकगृहेभ्यः तेभ्यः वृद्धजनेभ्यः सुरक्षितः सम्मानजनकश्च आश्रयः प्राप्स्यते, येषां पारिवारिकस्तरे सामाजिकस्तरे वा परिचर्यायाः आवश्यकता अस्ति।

सामाजिकन्यायाधिकारितामन्त्रालयस्य सचिवः सुधांशुपन्तः रविवासरे अवदत् यत् वृद्धानां गतिशीलतां स्वावलम्बनं च वर्धयितुं देशव्यापिनः २२८ विशेषशिविराणि आयोजितानि। एतेषां शिविराणां माध्यमेन ४.९१ लक्षाधिकाः लाभार्थिनः समाविष्टाः, प्रायः २३.९३ लक्षं निःशुल्कसहायकजीवनोपकरणानि च वितरितानि।

पन्तस्य अनुसारं दारिद्र्यरेखायाः अधः स्थितेभ्यः अल्पायवर्गेभ्यश्च पात्रेभ्यः वरिष्ठनागरिकेभ्यः चक्रिकासनानि, श्रवणयन्त्राणि, गमनदण्डाः चक्षुषी च प्रदत्तानि। एतेषाम् उपकरणानां प्राप्त्या वृद्धजनानां दैनन्दिनागमनाय संवादाय च महती सुविधा प्राप्ता।

सः अवदत् यत् कल्याणकारीयोजनाभिः सम्बद्धां सूचनाम् एकस्मिन् स्थाने उपलब्धां कर्तुं राष्ट्रपतिना ‘वरिष्ठनागरिककल्याणप्रवेशपटलम्’ इति पोर्टलम् आरब्धम्। एतत् पोर्टलं वरिष्ठनागरिकैः सम्बद्धानां सर्वकारीययोजनानाम्, अधिकाराणां सुविधानां च सटीकसूचनां प्रदातुं साझा-मञ्चरूपेण स्थापितम् अस्ति।

सचिवः अवदत् यत् मन्त्रालयस्य उद्देश्यम् सुलभस्वास्थ्यसेवाभिः संस्थागतपरिचर्यया च वृद्धजनान् स्वावलम्बिनः सुरक्षितपरिवेशे च स्थापयितुम् अस्ति।

Hindusthan Samachar / Dheeraj Maithani