Enter your Email Address to subscribe to our newsletters

लखनऊ, 13 सितंबरमासः (हि.स.)।
जेन-जी-संततिं स्वकीयैः मूलैः, इतिहासेन समृद्धया च सांस्कृतिकनिक्षेपेण सह परिचेतुम् उत्तरप्रदेशसर्वकारेण राजकीयसंग्रहालयान् विद्यार्थिभिश्च ‘एकदिवसीय-अध्ययनयात्रायोजनायाः’ माध्यमेन संयोजयितुं प्रयत्नः प्रारब्धोऽस्ति। अस्याः योजनायाः प्रारम्भः राजधानीलखनऊस्य राज्यसंग्रहालयात् अभवत्, यत्र लखनऊजनपदस्य पीएमश्रीराजकीयबालिकाइण्टरकालेज्, माल तथा पीएमश्रीराजकीयउत्तरप्रदेशसैनिकइण्टरकालेज्, सरोजिनीनगरस्य प्रायः षट्शतं छात्रछात्राः शैक्षिकभ्रमणं कृतवन्तः। संग्रहालये ऐतिहासिकधरोहराणां समीपतः दर्शनं तासां विषये च ज्ञानं प्राप्तुं विद्यार्थिषु विशेषः उत्साहः दृष्टः।
तदनन्तरं पञ्चदशे सितम्बरमासे उन्नावजनपदस्य त्रयाणां पीएमश्रीविद्यालयानां विद्यार्थिनः आगमिष्यन्ति। अपरत्र षोडशे सप्तदशे च सितम्बरमासयोः सीतापुरजनपदस्य सप्त पीएमश्रीविद्यालयानां प्रायः त्रिसहस्रं विद्यार्थिनः राज्यसंग्रहालयस्य भ्रमणं कृत्वा गौरवपूर्णया संस्कृत्या सभ्यतया च परिचिताः भविष्यन्ति।
सहैव अष्टादशे सितम्बरमासे रायबरेलीजनपदस्य पीएमश्रीराजकीयबालिकाइण्टरकालेज्, पीएमश्रीराजकीयइण्टरकालेज्, पीएमश्रीराजकीयबालिकाइण्टरकालेज् बछरावां तथा पीएमश्रीराजकीयइण्टरकालेज् डीह इत्येतेषां विद्यालयानां विद्यार्थिनः लखनऊ नगरे शैक्षिकभ्रमणं करिष्यन्ति। अपरं च एकोनविंशतितमे सितम्बरमासे बाराबंकीजनपदस्य पीएमश्रीराजकीयबालिकाइण्टरकालेज्, पीएमश्रीराजकीयइण्टरकालेज् सूरतगञ्ज, पीएमश्रीराजकीयबालिकाइण्टरकालेज् हैदरगढ़, पीएमश्रीराजकीयउच्चतरमाध्यमिकविद्यालय बरौलीजाटा, पीएमश्रीराजकीयबालिकाइण्टरकालेज् फतेहपुर, पीएमश्रीराजकीयबालिकाइण्टरकालेज् जैदपुरमोड़ तथा पीएमश्रीराजकीयइण्टरकालेज् बाराबंकी इत्येतेषां विद्यालयानां विद्यार्थिनः अपि अस्यैव शैक्षिकभ्रमणकार्यक्रमस्य अन्तर्गतं लखनऊम् आगमिष्यन्ति।
संस्कृतिपर्यटनमन्त्री जयवीरसिंहः अवदत् यत् ‘एकदिवसीय-अध्ययनयात्रायोजनायाः’ अन्तर्गतं पीएमश्रीराजकीयमाध्यमिकविद्यालयेषु नवमकक्षातः द्वादशकक्षापर्यन्तम् अध्ययनरतविद्यार्थिभ्यः स्वजनपदे अथवा समीपस्थजनपदे स्थितानां संस्कृतिविभागसम्बद्धानां संग्रहालयानां भ्रमणं कारयिष्यते। संग्रहालयेषु विद्यार्थिभ्यः ‘निःशुल्कप्रवेशः’, आवश्यकं सहयोगं तथा ‘मार्गदर्शितभ्रमणस्य’ सुविधा प्रदास्यते। अस्मिन् क्रमे संग्रहालयानि विद्यार्थिभ्यः केवलं दर्शनस्य स्थानानि न भविष्यन्ति, अपितु ‘कक्षायाः परतः शिक्षणस्य जीवन्तप्रयोगशाला’रूपेण कार्यं करिष्यन्ति। अत्र विद्यार्थी प्रदेशस्य ऐतिहासिकां सांस्कृतिकां च धरोहरां समीपतः ज्ञातुं शक्नुवन्ति तथा तस्याः महत्त्वं सम्यक् अवगन्तुं शक्नुवन्ति।
अध्ययनयात्रायाः समये सम्पादितानां गतिविधीनां भौगोलिकाङ्कितानि छायाचित्राणि चलच्चित्राणि च राज्यपरियोजनाकार्यालयाय विद्युद्वार्तामाध्यमेन उपलब्धानि कारयिष्यन्ते। अनेन व्यवस्थया विद्यार्थिनां सहभागितायाः भ्रमणगतिविधीनां च अभिलेखः अपि सज्जीकरिष्यते।
संस्कृतिपर्यटनमन्त्री अवदत् यत् अस्याः योजनायाः उद्देश्यं विद्यार्थिनः प्रदेशस्य उच्चशैक्षणिकसंस्थानैः सह इतिहासेन, कलया, संस्कृत्या, धरोहरया च प्रत्यक्षरूपेण परिचाययितुम् अस्ति। सः अवदत् यत् संग्रहालयेषु स्थापिताः पुरावशेषाः, मूर्तयः, मुद्राः, चित्राणि अन्ये च ऐतिहासिकसाक्ष्याः विद्यार्थिभ्यः पाठ्यपुस्तकेषु पठितां सूचनां प्रत्यक्षतः द्रष्टुं, अवगन्तुं अनुभवितुं च अवसरं प्रदास्यन्ति। अनेन अध्ययनं अधिकं रोचकं अनुभवाधारितं च भविष्यति तथा विद्यार्थिषु इतिहासस्य प्रति जिज्ञासा अपि वर्धिष्यते।
पर्यटनसंस्कृतिधर्मार्थकार्यविभागस्य अपरमुख्यसचिवः अमृतअभिजातः अवदत् यत् अस्याः प्रयत्नस्य माध्यमेन प्रदेशस्य विभिन्नजनपदानां सहस्रशः विद्यार्थिभ्यः स्वसमीपे विद्यमानाभिः ऐतिहासिकाभिः सांस्कृतिकाभिः च निक्षेपैः सह सम्बद्धतां प्राप्तुं अवसरः प्राप्स्यते। पुस्तकेषु पठितम् इतिहासं यदा विद्यार्थी संग्रहालयेषु विद्यमानाभिः वास्तविकनिक्षेपमाध्यमेन प्रत्यक्षतः द्रक्ष्यन्ति, तदा तेषां शिक्षणानुभवः अधिकः रोचकः, स्मरणीयः प्रभावश्च भविष्यति।।
Hindusthan Samachar / Dheeraj Maithani