‘सेवासङ्कल्पाभियान’ को ओडिशायां जनान्दोलनरूपं दातुम् आह्वानम् — डॉ. कृष्णचन्द्रमहापात्रः
भुवनेश्वरम्, १३ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्रमोदिनः सार्वजनिक-जीवनस्य २५ वर्षाणां सेवायात्रया प्रेरितं राष्ट्रव्यापिनं ‘सेवासङ्कल्पाभियानम्’ ओडिशायां व्यापकजनान्दोलनरूपेण परिणेतुम् आह्वानं कृतम्। अस्मिन् अभियाने समाजस्य सर्वेषां
डॉ. कृष्ण चंद्र महापात्र


भुवनेश्वरम्, १३ सेप्टेम्बरमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्रमोदिनः सार्वजनिक-जीवनस्य २५ वर्षाणां सेवायात्रया प्रेरितं राष्ट्रव्यापिनं ‘सेवासङ्कल्पाभियानम्’ ओडिशायां व्यापकजनान्दोलनरूपेण परिणेतुम् आह्वानं कृतम्। अस्मिन् अभियाने समाजस्य सर्वेषां वर्गाणां सक्रिय-सहभागितां सुनिश्चितं कर्तुं बलं दीयते।

आवास-नगरीयविकासमन्त्री डॉ. कृष्ण-चन्द्रमहापात्रः रविवासरे उक्तवान् यत् अस्मिन् अभियानं केवलं कार्यक्रमेषु सीमितं न स्थापयित्वा जनसहभागिताम् आधारीकृत्य जनान्दोलनरूपं दातव्यम्। सः अवदत् यत् ‘सेवासङ्कल्पस्य’ वास्तविक-भावना जनान् सेवा-दायित्व-राष्ट्र-निर्माणानां मूल्यै: सह सम्बद्धे निहिता अस्ति।

डॉ. महापात्रः अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः सार्वजनिकजीवनस्य २५ वर्षाणि समर्पणस्य, सेवायाः राष्ट्रनिर्माणस्य च उल्लेखनीययात्रायाः प्रतीकम् अस्ति। अस्याः यात्रायाः प्रेरणया ‘सेवासङ्कल्पा-भियानस्य’ उद्देश्यं समाजस्य प्रत्येकं व्यक्तिं प्रत्येकं वर्गं च जनकल्याणकार्यैः सह योजयितुम् अस्ति। सः अवदत् यत् राजनीतिः केवलं निर्वाचनपर्यन्तं सीमिता न भवेत्, अपितु जनसेवा, तेषां समस्यासु समाधानं तथा तेषां जीवने सकारात्मकपरिवर्तनं च तस्याः मूलोद्देश्यं भवेत्।

ओडिशायाम् इदं अभियानं सङ्गठनात्मक-जनपदस्तरात् मण्डल-बूथस्तरपर्यन्तं नेष्यते। समाजस्य सर्वाधिकवञ्चितानां दुर्बलानां च वर्गाणां समीपं गन्तुं विशेषं ध्यानं दीयते। आदिवासीसमुदायैः, महिलाभिः, कृषकैः, युवभिः, निर्धनैः वञ्चितवर्गैश्च सह संवादं कृत्वा तेषां समस्याः आवश्यकताश्च अवगन्तुं सम्भाव्यसहायतां च प्रदातुं प्रयासः क्रियते।

अभियानस्य अन्तर्गतं राज्यस्य सर्वत्र रक्तदानशिबिराणि, स्वच्छताभियानानि, श्रमदानम्, पादपारोपणम्, जन-जागरूकताकार्यक्रमाः विविधाः सामा-जिककल्याणक्रियाकलापाश्च आयोजयिष्यन्ते। अभियाने केवलं दलकार्यकर्तारः स्वयंसेवकाश्च एव न, अपितु सामान्यनागरिकाः अपि सेवाकार्येषु सक्रियतया भागं ग्रहीतुं प्रेरयिष्यन्ते।

डॉ. महापात्रः अवदत्, “सेवायाः परिमाणं बृहद् भवितुम् आवश्यकं नास्ति, महत्त्वपूर्णा तु सेवाभावनायाः व्यापकता अस्ति।” सः अवदत् यत् प्रत्येकं व्यक्तिः स्वस्तरे राष्ट्रनिर्माणे योगदानं दातुं शक्नोति। रक्तदानं, पादपारोपणं, स्वच्छताभियाने सहभागिता, आवश्यकतावतो जनस्य सहायता अथवा कस्मैचित् नागरिकाय सर्वकारीययोजनानां लाभं प्राप्तुं साहाय्यं करणमपि समाजस्य प्रति महत्त्वपूर्णं योगदानम् अस्ति।

अभियाने युवानां भूमिकायै विशेषं महत्त्वं दीयते। विद्यालयेषु महाविद्यालयेषु च चित्रकलास्पर्धाः, भाषणस्पर्धाः, परिचर्चाश्च आयोजयिष्यन्ते। एतेषु विकसित-भारत-२०४७, राष्ट्रनिर्माणम्, जनसेवा, युवशक्तिश्च इत्यादयः विषयाः केन्द्रे भविष्यन्ति।

डॉ. महापात्रः अवदत् यत् युवानः केवलम् ओडिशायाः भारतस्य च भविष्यं न, अपितु वर्तमानकालेऽपि देशस्य विकासयात्रां दिशां प्रदातुं समर्था महत्त्वपूर्णा शक्तिः सन्ति।

अभियानस्य माध्यमेन महिलासशक्ती-करणे, कृषकाणां समृद्धौ, युवानां कौशलविकासे, निर्धनानां कल्याणे, आदिवासीसमुदायानाम् उत्थाने च विशेषं ध्यानं दीयते। केन्द्रसर्वकारस्य राज्यसर्वकारस्य च विविधकल्याणकारी-योजनानां कार्यक्रमाणां च लाभं अन्तिमव्यक्तिपर्यन्तं प्रापयितुं जन-जागरूकतां सामूहिकसह-भागितां च सुदृढां करिष्यते।

डॉ. महापात्रः अवदत् यत् ‘सेवासङ्क-ल्पाभियानम्’ केवलम् एकमासपर्यन्तं चलिष्यमाणः कार्यक्रमः न, अपितु एका चिन्ता, दायित्वं दीर्घकालिकसङ्कल्पश्च अस्ति। सः अवदत्, “सेवया समृद्धिः, सङ्कल्पेन विकासः, जनसहभागितया विकसितम् ओडिशा—एव अस्माकं लक्ष्यं भवति।”

सः ओडिशायाः जनान् अभियाने पूर्णप्रतिबद्धतया भागं ग्रहीतुं आह्वानं कृत्वा अवदत् यत् सेवायाः लघुतमः प्रयासोऽपि समाजे सार्थकं परिवर्तनं जनयितुं शक्नोति। एकदिनस्य श्रमदानम्, रक्तस्य एककस्य दानम्, एकस्य पौधस्य रोपणम्, आवश्यकतावतो जनस्य सहायता अथवा पात्रनागरिकाय तस्य अधिकाराणां सर्वकारीययोजनानां च विषये सूचना प्रदानमपि समाजाय महत्त्वपूर्णं योगदानं भवितुम् अर्हति।

Hindusthan Samachar / Divya Ranjan