महावीरीध्वजशोभायात्रां प्रति नगरपरिषद्प्रशासनेन विशेषस्वच्छताभियानं सञ्चालितम्
अररियाम्, १३ सेप्टेम्बरमासः (हि.स.)। फारबिसगञ्जे १९०४ तमवर्षात् आयोज्यमानायाः ऐतिहासिक्याः महावीरी-ध्वजशोभायात्रायाः शोभायात्रां प्रति नगरपरिषद्प्रशासनेन नगरे विशेष-स्वच्छताभियानं सञ्चालितम्। रात्रौ नगरे सर्वत्र सञ्चितस्य कूटकर्कटस्य निष्कासनं कृतम
अररिया फोटो:सफाई अभियान


अररिया फोटो:चेयरमैन कर्मियों के साथ


अररिया फोटो:पानी का छिड़काव


अररियाम्, १३ सेप्टेम्बरमासः (हि.स.)। फारबिसगञ्जे १९०४ तमवर्षात् आयोज्यमानायाः ऐतिहासिक्याः महावीरी-ध्वजशोभायात्रायाः शोभायात्रां प्रति नगरपरिषद्प्रशासनेन नगरे विशेष-स्वच्छताभियानं सञ्चालितम्। रात्रौ नगरे सर्वत्र सञ्चितस्य कूटकर्कटस्य निष्कासनं कृतम्। प्रातःकाले मार्गेषु मार्जनं कृत्वा जलस्य प्रोक्षणमपि कृतम्। मुख्यपार्षदा वीणादेवी स्वयम् अस्य स्वच्छताभियानस्य निरीक्षणं कुर्वती आसीत्।

तदतिरिक्तं मार्गेषु विद्यमानाः गर्ताः पूरिताः तथा प्रशासनिकव्यवस्थानुसारं मार्गेषु वंशैः अवरोधकवेष्टनं कृतम्। असुरक्षितस्थानेषु नालानां समीपे च वंशैः अवरोधकवेष्टनं कारितम्, येन किमपि दुर्घटनं न भवेत्।

मार्गे स्थित्वा स्वच्छताकार्यस्य निरीक्षणं कुर्वती मुख्यपार्षदा वीणादेवी अवदत् यत् महावीरीध्वजशोभायात्रायां केवलं नगरस्य विभिन्नेभ्यः अखाडा इत्येतेभ्यः एव न, अपितु ग्रामीणक्षेत्रेभ्यः अपि बहुसंख्यकाः श्रद्धालवः आगच्छन्ति। श्रद्धालूनां कृते काऽपि असुविधा न भवेत्, एतदर्थं नगरपरिषदः क्षेत्रे विशेषस्वच्छताभियानं सञ्चालितम् अस्ति।

Hindusthan Samachar / Divya Ranjan