Enter your Email Address to subscribe to our newsletters

मसालाक्षेत्रविस्तारप्रोत्साहनयोजनया प्रदेशे १३०० हेक्टेयर-क्षेत्रे हरिद्रा-कृषेः लक्ष्यम्
रायपुरम्, १३ सेप्टेम्बरमासः (हि.स.)। कृषिविकासस्य कृषककल्याणस्य च मन्त्री रामविचारनेताम्-महोदयस्य नेतृत्वे छत्तीसगढसर्वकारस्य कृषकहितैषिणीनां नीतिनां योजनानां च माध्यमेन प्रदेशे खाद्यान्नोत्पादनेन सह सस्यवैविध्यमपि निरन्तरं प्रोत्साह्यते। उद्यानिकीसस्यानां कृषेः प्रोत्साहनेन कृषकाः अधुना पारम्परिकानां शाकानां फलानां च उत्पादनस्य साथं मसालासस्यानाम् अपि कृषौ रुचिं दर्शयितुम् आरब्धवन्तः। अनेन प्रदेशे मसालासस्यानां कृषिक्षेत्रस्य विस्तारस्य साथं कृषकेभ्यः आयस्य नूतनाः अवसराः अपि सृज्यन्ते।
अस्यैव दिशि वर्षे २०२६-२७ तमे राज्यपोषितमदस्य अन्तर्गतं मसालाक्षेत्र-विस्तारप्रोत्साहनयोजना सञ्चाल्यते। उद्यानिकी-क्षेत्रवनिकी-विभागेन योजनायाः अन्तर्गतं हरिद्रा-सस्यस्य क्षेत्रविस्ताराय १३०० हेक्टेयर-क्षेत्रस्य लक्ष्यं निर्धारितम् अस्ति। अस्यै ६२० लक्षरूप्यकाणां वित्तविवरण-प्रावधानं कृतम् अस्ति। योजनायाः माध्यमेन कृषकाः मसाला-सस्यानां कृष्यर्थं प्रोत्साह्यन्ते, येन प्रदेशे सस्यवैविध्यं वर्धते।
योजनायाः क्रियान्वयनेन कृषकेभ्यः पारम्परिकसस्यानां साथं हरिद्रा-सदृशानां मसालासस्यानां कृषेः विकल्पः प्राप्यते। अनेन एकतः कृषकाणाम् आयवर्धनस्य सम्भावनाः सुदृढाः भवन्ति, अपरतः प्रदेशे मसालासस्यानाम् उत्पादनवृद्ध्या स्थानीयस्तरे तेषाम् उपलब्धतापि वर्धिष्यते।
हरिद्रा-बीजस्य आपूर्तिः गुणवत्ता च
हरिद्रा-बीजस्य आपूर्तिं विषये प्रसारितानां भ्रामकसूचनानां सम्बन्धे स्थितिं स्पष्टयन् उद्यानिकीविभागेन उक्तं यत् हरिद्रा-बीजस्य आपूर्तिः सञ्चालनालयस्तरेन जनपदस्तरेण वा न क्रियते। अपितु छत्तीसगढसर्वकारस्य कृषिविकास-कृषककल्याण-जैवप्रौद्योगिकीविभागेन निर्गतानां निर्देशानाम् अनुसारेण प्रत्यक्षलाभान्तरणस्य माध्यमेन कृषकेभ्यः योजनान्तर्गतं अनुदानस्य लाभः प्रदीयते। कृषकैः क्रीतानां बीजानां देयकानाम् अन्येषाम् अभिलेखानां च परीक्षणस्य तथा सस्यस्य भौतिकसत्यापनस्य अनन्तरमेव अनुदानभुगतानस्य कार्यवाही क्रियते।
वर्तमानकाले कृषकैः क्रीतानि यानि बीजानि अनुदानं प्राप्नुवन्ति, तानि पूर्णतया स्वस्थानि उच्चगुणवत्तायुक्तानि च सन्ति। तेषां अङ्कुरणेऽपि कापि समस्या नास्ति। विभागेन निर्धारितप्रक्रियायाः अनुसारं पात्रकृषकेभ्यः आवश्यक-सत्यापनस्य अनन्तरमेव अनुदानस्य लाभः प्रदीयते।
अधुना पर्यन्तं योजनायाः अन्तर्गतं १३८ लक्षरूप्यकाणि कृषकाणां धनागारेषु प्रदत्तानि सन्ति। अस्याः योजनायाः क्रियान्वयनेन सस्यवैविध्यं प्रोत्साह-यिष्यते। तेन सह मसालासस्यानां क्षेत्रविस्तारः भविष्यति, मसालोद्योग-सम्बद्धव्यवसायेभ्यः कच्चामालस्य उपलब्धता भविष्यति तथा उद्योगेभ्यः अपि लाभः प्राप्स्यते।
मसालाक्षेत्रविस्तारप्रोत्साहनयोजनायाः माध्यमेन प्रदेशे कृषिं अधिकलाभप्रदां विविधतापूर्णां च कर्तुं दिशि महत्त्वपूर्णाः प्रयासाः क्रियन्ते। हरिद्रासहितानाम् अन्येषां मसालासस्यानां क्षेत्रविस्तारेण कृषकेभ्यः अतिरिक्तायस्य अवसरः प्राप्स्यते, स्थानीयोत्पादनं प्रोत्साह्यते तथा प्रदेशे मसालाधारितोद्योगेभ्यः कच्चामालस्य उपलब्धतापि सुदृढा भविष्यति। एवं उद्यानिकीक्षेत्रस्य विस्तारः कृषकाणां समृद्धेः साथं छत्तीसगढस्य कृष्यर्थ-व्यवस्थायै अपि नूतनां गतिं प्रदातुं सहायकः भवति।
Hindusthan Samachar / Divya Ranjan