ब्रिक्स-शिखरसम्मेलनस्य अन्तिमदिने भारत-मण्डपे सुरक्षाव्यवस्था सुदृढा
नवदिल्ली, १३ सेप्टेम्बरमासः (हि.स.)। राष्ट्रिय-राजधानी-नवदिल्ली इत्यत्य भारत-मण्डपे भारतस्य अध्यक्षतायाम् आयोजितस्य अष्टादशस्य ब्रिक्स-शिखरसम्मेलनस्य द्वितीयदिने रविवासरे सुरक्षायाः सुदृढाः व्यवस्थाः कृताः सन्ति। दिल्ली-यातायात-आरक्षकविभाग: मार्गेष
18वें ब्रिक्स शिखर सम्मेलन 2026 के लोगो का प्रतीकात्मक चित्र


नवदिल्ली, १३ सेप्टेम्बरमासः (हि.स.)। राष्ट्रिय-राजधानी-नवदिल्ली इत्यत्य भारत-मण्डपे भारतस्य अध्यक्षतायाम् आयोजितस्य अष्टादशस्य ब्रिक्स-शिखरसम्मेलनस्य द्वितीयदिने रविवासरे सुरक्षायाः सुदृढाः व्यवस्थाः कृताः सन्ति। दिल्ली-यातायात-आरक्षकविभाग: मार्गेषु परिवर्तनानि कृतवान् अस्ति।

अष्टादशस्य ब्रिक्स-शिखरसम्मेलनस्य २०२६ अन्तिमदिने भारत-मण्डपे सुरक्षासंस्थाः आगच्छतां गच्छतां च जनानां गतिविधिषु सततं दृष्टिं स्थापयन्ति। प्रथमदिने ‘नवदिल्लीघोषणापत्रस्य’ सर्व-सम्मत्या स्वीकरणानन्तरम् अद्य शिखरसम्मेलनस्य समापनं भविष्यति।

दिल्ली-यातायातविभाग: विस्तृतं परामर्शपत्रं निर्गत्य २२ स्थानेषु यातायातमार्गेषु परिवर्तनं तथा ३५ तः अधिकेषु मार्गेषु वाहनानां आवागमनस्य नियन्त्रणं घोषितवान् अस्ति। प्रगतिमैदाने स्थितस्य भारत-मण्डपस्य परितः एते प्रतिबन्धाः प्रातः ८ वादनात् प्रवर्तन्ते। एते परिवर्तनाः रात्रौ ८ वादनपर्यन्तं प्रभावी भविष्यन्ति।

Hindusthan Samachar / Divya Ranjan