‘वन्दे मातरम्’ इत्यस्य १५० वर्षपूर्तौ अर्ध-मैराथन-युवा-संवादकार्यक्रमयोः आयोजनम्
युवभिः राष्ट्ररक्षायै सङ्कल्पः स्वीकृतः बलरामपुरम्, १३ सेप्टेम्बरमासः (हि.स.)। उत्तरप्रदेशस्य बलरामपुर-जनपदस्य तुलसीपुरनगरे ‘वन्दे मातरम्’ इत्यस्य १५० वर्षपूर्त्यवसरे रविवासरे राष्ट्रियस्वयं-सेवकसङ्घस्य आदिशक्तिमातृपाटेश्वरी-सार्वजनिकविद्यालयस्य च
Sammanit karte


Youwa samvad


युवभिः राष्ट्ररक्षायै सङ्कल्पः स्वीकृतः

बलरामपुरम्, १३ सेप्टेम्बरमासः (हि.स.)। उत्तरप्रदेशस्य बलरामपुर-जनपदस्य तुलसीपुरनगरे ‘वन्दे मातरम्’ इत्यस्य १५० वर्षपूर्त्यवसरे रविवासरे राष्ट्रियस्वयं-सेवकसङ्घस्य आदिशक्तिमातृपाटेश्वरी-सार्वजनिकविद्यालयस्य च संयुक्त-तत्त्वावधाने अर्ध-मैराथन-धावन-प्रतियोगिता, भव्यत्रिरङ्गायात्रा तथा ‘राष्ट्रनिर्माणे यूनां योगदानम्’ इति विषये युवा-संवादकार्यक्रमश्च आयोजितः।

अष्टमकक्षातः द्वादशकक्षापर्यन्तं विद्या-र्थिभ्यः आयोजिते अस्मिन् कार्यक्रमे युवभिः उत्साहेन, अनुशासनेन राष्ट्रप्रेम-भावनया च सहभागिता कृता। अर्ध-मैराथन-धावनस्य तिरङ्गायात्रायाश्च माध्यमेन विद्यार्थिभिः देशभक्तेः, एकतायाः राष्ट्र-निर्माणस्य च सन्देशः प्रदत्तः। ततः युवा-जागरणमञ्चस्य अन्तर्गतं ‘राष्ट्रनिर्माणे यूनां भूमिका’ इति विषये युवा-संवादः प्रश्नोत्तरगोष्ठी च आयोजिता।

कार्यक्रमस्य शुभारम्भः विद्यालयस्य प्रधानाचार्येण डॉ. डी.पी. सिंह-महोदयेन राष्ट्रियस्वयंसेवकसङ्घस्य कार्यकर्तृभिश्च दीपप्रज्वलनेन पुष्पार्चनेन च कृतः। युवा-संवादस्य समये विद्यार्थिभिः शिक्षा-क्षेत्रे, वृत्तिनिर्वाचने, सामाजिकदायित्वे राष्ट्र-निर्माणे च सम्बद्धाः विविधाः प्रश्नाः निःसंकोचं पृष्टाः। राष्ट्रियस्वयंसेवक-सङ्घस्य कार्यकर्तारः विद्यार्थिनां प्रश्नानाम् उत्तराणि दत्त्वा राष्ट्रहिते सकारात्मक-भूमिकां निर्वोढुं तान् प्रेरितवन्तः। प्रश्नपृच्छकाः विद्यार्थिनः प्रमाणपत्रैः सम्मानिताः।

अर्ध-मैराथन-धावनप्रतियोगितायां उत्कृष्टप्रदर्शनं कृतवन्तः दश शीर्ष-प्रतिभागिनः पदकैः प्रशस्तिपत्रैश्च सम्मानिताः। प्रतियोगितायां प्रथमस्थानं परशुराम-संस्कृतविद्यालयस्य द्वादशकक्षायाः विद्यार्थी प्राप्तवान्। द्वितीयस्थाने अंशुमानः (आदिशक्ति-मातृपाटेश्वरी-सार्वजनिकविद्यालयः, नवमी कक्षा), तृतीयस्थाने सौरभयादवः, चतुर्थस्थाने दिव्यांशुः (संस्कृतविद्यालयः, नवमी कक्षा), पञ्चमस्थाने दुर्गेशः (नवमी कक्षा), षष्ठस्थाने अक्षतार्या (अष्टमी कक्षा), सप्तमस्थाने अशोकमौर्यः (दशमी कक्षा), अष्टमस्थाने अरविन्दः (एकादशी कक्षा), नवमस्थाने गणेशः (नवमी कक्षा), दशमस्थाने शैलेशः (एकादशी कक्षा) च अभवन्।

कार्यक्रमे जनपदप्रचारकः जितेन्द्रः, जनपदकार्यवाहः कृतमणिः, नीलमणिः, विभागसेवाप्रमुखः श्यामसुन्दरः, खण्ड-कार्यवाहः जसवन्तः, नगरकार्यवाहः आलोकः, नगरखण्डविस्तारकः सुशील-कुमारः, संस्कृतविद्यालयस्य प्राचार्यः अनिलकुमारः, शिवकुमारः, शिवमः, अवधेशकुमारः इत्यादयः स्वयंसेवकाः विद्यालयस्य शिक्षकाः शिक्षिकाश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan