ब्राह्मणः सदैव राष्ट्रं सर्वोपरि मन्यते, अस्माकं परम्परा समाजाय प्रदातुम् अस्ति - बृजेशपाठकः
गाजियाबादम्, १३ सेप्टेम्बरमासः (हि.स.)। उत्तरप्रदेशस्य गाजियाबादे स्थिते पण्डितदीनदयालोपाध्यायसभागारे रविवासरे आयोजिते ब्रह्मसमागमे उत्तरप्रदेशस्य उपमुख्यमन्त्री बृजेशपाठकः सहभागितां कृतवान्। अस्मिन् अवसरे तेन ब्राह्मणसमाजस्य गौरवशालिनीं परम्परां,
ब्रह्म समागम को संबोधित करते हुए उपमुख्यमंत्री की फोटो


गाजियाबादम्, १३ सेप्टेम्बरमासः (हि.स.)। उत्तरप्रदेशस्य गाजियाबादे स्थिते पण्डितदीनदयालोपाध्यायसभागारे रविवासरे आयोजिते ब्रह्मसमागमे उत्तरप्रदेशस्य उपमुख्यमन्त्री बृजेशपाठकः सहभागितां कृतवान्। अस्मिन् अवसरे तेन ब्राह्मणसमाजस्य गौरवशालिनीं परम्परां, त्यागं, समर्पणं राष्ट्रभावनां च रेखाङ्कितं कुर्वता उपस्थितजनसमुदायम् आहूतं यत् समाजः एकतां धृत्वा राष्ट्रनिर्माणे स्वकीयां भूमिकां निर्वहेत्।

उपमुख्यमन्त्री बृजेशपाठकेन जनसमुदायं सम्बोधयता उक्तं यत् ब्राह्मणः सदैव राष्ट्रं सर्वोपरि मन्यते। अस्माकं परम्परा समाजाय प्रदातुं समर्पिता अस्ति। समाजनिर्माणे ब्राह्मणसमाजेन प्रदत्ताः संस्काराः अद्यापि नववंशाय दिशाप्रदानस्य कार्यं कुर्वन्ति। तेन उक्तं यत् दधीचिसदृशाः तपस्विनः ऋषयः त्यागस्य समर्पणस्य च परम्परायाः प्रतीकाः सन्ति। ते स्वस्य अस्थीनाम् अपि दानं कृत्वा समाजकल्याणस्य राष्ट्रकल्याणस्य च अनुपमम् उदाहरणं प्रस्तुतवन्तः।

तेन उक्तं यत् ब्राह्मणसमाजः कस्यापि स्वार्थं लोभं वा विना समाजकल्याणे विश्वासं करोति। समाजस्य सङ्गठितं संस्कारितं सुव्यवस्थितं च कर्तुं आवश्यकतायाः विषये बलं दत्त्वा तेन उक्तं यत् काऽपि आसुरीशक्तिः अस्माकं समाजं न भ्रान्तं कर्तुं शक्नोति, न वा विभाजयितुं शक्नोति। बुद्ध्या विवेकेन च सम्पन्नस्य अस्य समाजस्य रगासु त्यागस्य समर्पणस्य च भावना परिपूर्णतया वर्तते। उपमुख्यमन्त्रिणा उक्तं यत् ब्राह्मणसमाजेन स्वस्य गौरवशालिन्य: परम्पराः अग्रे नयता सामाजिकैकतायां, संस्कारे राष्ट्रनिर्माणे च महत्त्वपूर्णा भूमिका निर्वोढव्या। तेन समाजस्य एकतां समयस्य आवश्यकतां वर्णयता राष्ट्रहितं सर्वोपरि स्थापयितुं सन्देशः प्रदत्तः।

कार्यक्रमस्य प्रारम्भात् पूर्वं उत्तरप्रदेशस्य वरिष्ठनेतुः राजस्थानस्य पूर्वराज्यपालस्य च कलराजमिश्रस्य धर्मपत्नी स्वर्गीयायाः सत्यवतीदेव्याः निधनस्य विषये गहनः शोकः प्रकटितः तथा तस्याः आत्मनः शान्तये द्विनिमेषं मौनं धृतम्। कार्यक्रमस्य आयोजकेन आर.डी.शर्मणा उपस्थितानां सर्वेषाम् अतिथीनां समाजस्य गणमान्य-जनानां च स्वागतं कृतम्। आर.डी.शर्मणा पश्चिमोत्तरप्रदेशात् आगतानां ब्राह्मण-समाजस्य सर्वेषां जनानां जनप्रतिनिधीनां च आभारः प्रकटितः तथा ब्राह्मणसमाजस्य एकतायै आह्वानं कृतम्।

अस्मिन् अवसरे नगरविधायकः सञ्जीवशर्मा, विधानपरिषदः सदस्यः सुनीलभराला, नानकचन्दशर्मा, अमरेश-शर्मा, धर्मेन्द्रभारद्वाजः, लोकेशदीक्षितः, आरतीशर्मा, आरतीत्यागी, आदेशफौजी, प्रदीपशर्मा, सुनीलशर्मा, महेन्द्रदत्तशर्मा, पङ्कजमुद्गलः, विशालगोस्वामी, मनीष-भार्गवः, अङ्कुरशर्मा, विनयशर्मा इत्यादयः ब्राह्मणसमाजस्य अनेके प्रतिष्ठिताः जनाः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan