लखनऊ इत्स्यय पर्वतारोहिणी पूर्वा धवन इत्यनया ५,८२६ मीटर-उन्नते रुद्रगैरा-शिखरे त्रिरङ्गध्वजारोपितः
मुख्यमन्त्रिणः योगी आदित्यनाथस्य साक्षात्कारात् प्राप्ता प्रेरणा, अधुना एवरेस्ट-विजयस्य लक्ष्यं निर्धारितम् लखनऊ, १३ सेप्टेम्बरमासः (हि.स.)। मुख्यमन्त्रिणा योगी आदित्यनाथेन सह साक्षात्कारं कृत्वा ‘बेटी बढ़ाओ-बेटी पढ़ाओ’ इति सन्देशं वहन्ती पर्वतारो
लखनऊ की पर्वतारोही पूर्वा धवन ने 5,826 मीटर ऊंची रुद्रगैरा चोटी पर फहराया तिरंगा*


लखनऊ की पर्वतारोही पूर्वा धवन ने 5,826 मीटर ऊंची रुद्रगैरा चोटी पर फहराया तिरंगा*


मुख्यमन्त्रिणः योगी आदित्यनाथस्य साक्षात्कारात् प्राप्ता प्रेरणा, अधुना एवरेस्ट-विजयस्य लक्ष्यं निर्धारितम्

लखनऊ, १३ सेप्टेम्बरमासः (हि.स.)। मुख्यमन्त्रिणा योगी आदित्यनाथेन सह साक्षात्कारं कृत्वा ‘बेटी बढ़ाओ-बेटी पढ़ाओ’ इति सन्देशं वहन्ती पर्वतारोहणा-भियाने निर्गता लखनऊ इत्यस्य पर्वतारोहिणी पूर्वाधवन इत्यनया माउण्ट् रुद्रगैरायाः ५,८२६ मीटर-उन्नतं शिखरं प्राप्य भारतीयत्रिरङ्गध्वजारोपितः। २०२६ तमस्य वर्षस्य सेप्टेम्बरमासस्य १० दिनाङ्के मध्याह्ने १२:३० वादने शिखरं प्राप्तवती पूर्वा कठिनान् हिमाच्छादितान् शिलामयान् च मार्गान्, न्यूनप्राणवायुम् तथा समस्यापूर्णपरिस्थितीं च सम्मुखी-कृत्य एताम् उपलब्धिं प्राप्तवती। अधुना तस्याः अग्रिमं लक्ष्यं विश्वस्य सर्वोच्चं शिखरं माउण्ट् एवरेस्ट् विजेतुम् अस्ति।

मुख्यमन्त्रिणा योगी आदित्यनाथेन सह साक्षात्कारं कृत्वा ‘बेटी बढ़ाओ-बेटी पढ़ाओ’ इति सन्देशः समर्पितः

२०१८ तमस्य वर्षस्य मे-मासे पूर्वा मुख्यमन्त्रिणं योगी-आदित्यनाथं मिलित्वा ‘बेटी बचाओ-बेटी पढ़ाओ’ इति लिखितं ध्वजफलकं समर्पितवती आसीत्। मुख्यमन्त्री शुभकामनाः प्रदाय तस्याः उत्साहं वर्धितवान्। पूर्वा रुद्रगैरा-शिखर-विजयस्य श्रेयः परिवारस्य सहयोगाय मुख्यमन्त्रिणः प्रेरणायै च दत्तवती। अभियाने शैलेशसेमवालस्य बिहारी-सिंहराणाया: च महत्त्वपूर्णा भूमिका आसीत्। तयोः मार्गदर्शने एव पूर्वया गङ्गोत्र्यां विशेषप्रशिक्षणं प्राप्तम्।

गङ्गोत्रीतः द्विदिवसीयं यात्रां कृत्वा १,३०० मीटर-उन्नतस्य कठिनारोहणम्

पूर्वा, शैलेशसेमवालः तथा बिहारीसिंहराणा च ७ सेप्टेम्बरमासे प्रातः ९ वादने गङ्गोत्रीतः पदयात्राम् आरब्धवन्तः। द्विदिवसीयस्य समस्यापूर्णस्य पदयात्रायाः अनन्तरं दलं ४,३५० मीटर-उन्नते रुद्रगैरा-आधारशिबिरं प्राप्तम्। १० सेप्टेम्बरमासे प्रातः चतुर्वादने आधार-शिबिरात् शिखरारोहणस्य प्रयासः प्रारब्धः। प्रायः अष्टहोराः त्रिंशत् निमेषांश्च यावत् चलेन कठिनारोहणेन दलं प्रायः १,३०० मीटर-उन्नतिं प्राप्तवद् मध्याह्ने १२:३० वादने ५,८२६ मीटर-उन्नतं शिखरं प्राप्तम्। मार्गे तीव्राः हिमाच्छादिताः भागाः, शिलामयाः प्रदेशाः तथा कठिनाः मुक्तप्रदेशाः आसन्। उन्नतिं वर्धमानेन सह प्राणवायोः न्यूनता शारीरिकश्रमश्च समस्याम् अधिकां कृतवन्तौ, तथापि दलस्य सदस्याः साहसं न त्यक्तवन्तः। मुख्यमन्त्रिणा योगी आदित्यनाथेन सह साक्षात्कारस्य समये प्राप्तं प्रोत्साहनं पूर्वया स्वस्य अभियानस्य ऊर्जारूपेण स्वीकृतम् अस्ति तथा सा निरन्तरं नूतनलक्ष्यस्य दिशि अग्रसरति।

पर्यावरणसंरक्षणेन सह अधुना एवरेस्ट्-अभियानम्

पूर्वया स्वीयं अभियानं पर्यावरणसंरक्षणेन सह अपि सम्बद्धम् अस्ति। ‘पीक्स् एण्ड् प्लास्टिक्’ इति उपक्रमस्य माध्यमेन सा पर्वतीयक्षेत्रेषु प्लास्टिक्-अपशिष्टस्य विषये जागरूकतां तथा उत्तरदायि-पर्वतारोहणस्य सन्देशं प्रसारयति। तस्याः मतानुसारं हिमालयस्य शिखराणां विजयः यथा गौरवपूर्णः अस्ति, तथैव तेषां स्वच्छं सुरक्षितं च संरक्षणम् अपि अत्यावश्यकम् अस्ति। रुद्रगैरायां त्रिरङ्गध्वजारोपितवती पूर्वा अधुना ८,८४८.८६ मीटर-उन्नतस्य माउण्ट् एवरेस्ट्-शिखरस्य विजयाय लक्ष्यं स्थापयति। एवरेस्ट्-शिखरे भारतीय-त्रिरङ्गध्वजारोपयित्वा महिलासशक्ती-करणस्य, युवप्रेरणायाः तथा स्वच्छ-हिमालयस्य च सन्देशं प्रसारयितुं तस्याः लक्ष्यं वर्तते।

Hindusthan Samachar / Divya Ranjan