Enter your Email Address to subscribe to our newsletters

फिरोजाबादम्, १३ सेप्टेम्बरमासः (हि.स.)। उत्तरप्रदेशसर्वकारस्य पर्यटन-संस्कृति-मन्त्री जयवीरसिंहः रविवासरे स्वकीये निजनिवासस्थाने सिरसागञ्जे जनपद-स्तरीयाधिकारिभिः सह जनानां समस्याः श्रुतवान्। सः अवदत् यत् यदि सूचनाकर्तुः समस्यायाः निवारणं न भविष्यति तर्हि सम्बन्धिताधिकारिणः विरुद्धं कार्यवाही भविष्यति।
जनसुनवायाः समये पर्यटनमन्त्री जयवीरसिंहः जनपदात् अन्येभ्यः जन-पदेभ्यश्च आगतानां सूचना: एकैकशः श्रुतवान्। ततः उपस्थितान् सम्बन्धितान् जनपदस्तरीयाधिकारिणः सूचनानां गुणवत्तापूर्णं समयबद्धं च निवारणं कर्तुं निर्देशितवान्। सः प्रार्थिनां सूचना: गम्भीरतया स्वीकृत्य कतिपयेषु प्रकरणेषु सम्बन्धिताधिकारिभिः सह दूरभाषेण प्रत्यक्षं वार्तां कृत्वा सूचनानां निवारणमपि कारितवान्। सम्बन्धिताधिकारिभ्यः सः एतदपि निर्देशितवान् यत् गुणवत्ता-पूर्णसूचनानिवारणस्य कार्यवाह्या: सम्पन्नानन्तरं सूचनाकर्त्रे अपि तस्य सूचनायाः निवारणं जातमिति सूचयेत्।
जनश्रवणसमये अधिकांशाः सूचना: भूमिविवादैः, अतिक्रमणेन तथा अवैध-आधिपत्यानां निष्कासनसम्बन्धेन प्राप्ताः। एतस्मिन् विषये पर्यटनमन्त्री जनपदाधिकारिणं प्रति उपजनपदाकारिणं सिरसागञ्जं तथा आरक्षकक्षेत्राधिकारिणं सिरसागञ्जं च निर्देशयन् अवदत् यत् शनिवासरे आयोज्यमानेषु थानादिवसेषु एतादृशानां भूमिविवादप्रकरणानां निवारणाय आरक्षकविभागस्य राजस्व-विभागस्य च संयुक्तदलानि स्थले प्रेषयित्वा निरीक्षणं कृत्वा गुणवत्तापूर्णं निवारणं क्रियताम्।
अस्य कृते सः सर्वान् सम्बन्धिताधिकारिणः निर्देशितवान् यत् प्राप्तानां सूचनानां गुणवत्तापूर्णनिवारणस्य अनुपालन-प्रतिवेदनं सज्जीकृत्य तस्मै अपि अवगतं कारयन्तु। सः अवदत् यत् उत्तरप्रदेश-सर्वकारः जनानां समस्यासु गम्भीरः अस्ति। अतः अधिकारिभिः जनानां समस्याः स्थानीयस्तरे शीघ्रतया गुणवत्तापूर्वकं निवारयितुं सुनिश्चितं करणीयम्।
जनश्रवणसमये भूमिसम्बन्धिताः, विद्युत्स-म्बन्धिताः, जलसम्बन्धिताः, राशनपत्र-सम्बन्धिताः, विद्युत्विभागस्य बिल-सम्बन्धिताः, आवासयोजनासम्बन्धिताः, आधारपत्रसम्बन्धिताः, अतिक्रमण-सम्बन्धिताः, आरक्षकसम्बन्धिताः च सूचना: अधिकतया प्राप्ताः। जनश्रवणसमये सः एतदपि स्पष्टं कृतवान् यत् यदि सूचनाकर्तुः सूचनायाः निवारणं न भवति तथा च सः पुनः तस्य समीपम् आगच्छति, तर्हि सम्बन्धिताधिकारिणः विरुद्धमपि कार्यवाही करिष्यते।
Hindusthan Samachar / Divya Ranjan