Enter your Email Address to subscribe to our newsletters

आकाश आनन्दः श्वशुरस्य सङ्केतानुसारं कार्यं कुर्वन् अस्ति
लखनऊ, १३ सितम्बर (हि.स.)। बहुजनसमाजपार्टीतः राष्ट्रियाध्यक्षया उत्तरप्रदेशस्य पूर्वमुख्यमन्त्रिणा मायावत्या नवदेहल्यां आयोजितस्य अष्टादशस्य ब्रिक्स्-शिखरसम्मेलनस्य अवसरें प्रकाशितं ‘नवदेहलीघोषणापत्रम्’ महत्त्वपूर्णां कूटनीतिकोपलब्धिम् इति कथितम्। सा अवदत् यत् यूक्रेनं ईरानं च प्रति अमेरिकायाः नीतिभिः, वर्धमानया वैश्विकतनावस्थित्या, संघर्षेण व्यापारिकशुल्कैश्च उत्पन्नस्य आर्थिकसंकटस्य मध्ये ब्रिक्स्-देशैः १४० परिच्छेदयुक्तं घोषणापत्रं सर्वसम्मत्या प्रकाशितम्। एतत् परस्परसामंजस्यस्य कूटनीतिकदूरदर्शितायाश्च परिचायकम् अस्ति।
रविवासरे लखनऊ नगरे आयोजितायां पत्रकारवार्तायां मायावती अवदत् यत् ब्रिक्स्-देशानां मध्ये परस्परसंबन्धान् अधिकं सुदृढान् कर्तुं इच्छा आशां जनयति। सा अवदत् यत् ब्रिक्स्-मुद्रायाः विकासस्य दिशि अग्रे गमनमपि महत्त्वपूर्णं चरणं सिद्धं भवितुम् अर्हति।
फलस्तीनस्य विषयस्य उल्लेखं कुर्वती बसपाप्रमुखा अवदत् यत् द्विराष्ट्रसमाधानस्य, १९६७ तमवर्षस्य सीमाः आधृत्य स्वतन्त्रस्य फलस्तीनराष्ट्रस्य समर्थनस्य च सह आतङ्कवादस्य सर्वस्तरेषु निवारणस्य प्रतिबद्धता महत्त्वपूर्णा अस्ति। सा अवदत् यत् पहलगामस्य उल्लेखपूर्वकं आतङ्कवादस्य विरुद्धं व्यक्तया प्रतिबद्धतया भारतस्य दृष्टिकोणाय यथोचितं समर्थनं प्राप्तम्, यत् प्रशंसनीयम् अस्ति।
चीनदेशेन सह सम्बन्धानां विषये मायावती अवदत् यत् उभाभ्यां देशाभ्यां स्वमतभेदान् विवादरूपेण परिणतुं परिहर्तव्यम् तथा परस्परं विकासस्य सहभागिनौ मत्वा अग्रे गन्तव्यम्। सा अवदत् यत् अस्य दृष्टिकोणस्य परिणामाः आगामिकाले समक्षं भविष्यन्ति। तदनन्तरं उभयोः देशयोः मध्ये सीमाविवादस्य शीघ्रं समाधानमपि उचितं भविष्यति।
५८ सहस्रं पञ्चायतसहायकानां मागेषु सर्वकारेण सहानुभूतिपूर्वकं विचारः करणीयः
मायावत्याः उत्तरप्रदेशसर्वकाराय राज्यस्य प्रायः ५८ सहस्रं पञ्चायतसहायकानां मागेषु सहानुभूतिपूर्वकं विचारं कर्तुम् अपीलः कृता। सा अवदत् यत् पञ्चायतसहायकाः मानदेयस्य वृद्धिं सम्मानजनकरूपेण कर्तुं, संविदाधारितनियुक्तेः स्थाने स्थायीनियुक्तिं कर्तुं च इत्यादीनां विभिन्नानां मागाणां विषये कतिपयदिनानि यावत् लखनऊस्थे ग्रीन इको गार्डेनस्य समीपे आन्दोलनं कुर्वन्ति।
बसपाप्रमुखा अवदत् यत् सर्वकारेण पञ्चायतसहायकानां मागेषु सहानुभूतिपूर्वकं विचारः करणीयः। सा अवदत् यत् तेषां समस्यायाः उचितं समाधानं करणं श्रेयस्करं भविष्यति।
मुख्यसेक्टरप्रभारिपदं समाप्तम्
मायावत्या सितम्बरमासस्य तृतीये दिने लखनऊस्थिते पार्टीप्रदेशकार्यालये आयोजितायां सभायां स्वीकृतानां निर्णयानाम् सूचनामपि प्रदत्ता। सा अवदत् यत् पार्टीकार्यस्य युद्धस्तरेन गतिं वर्धयितुं बसपायाः सङ्गठनं त्रिषु सेक्टरेषु विभक्तम् अस्ति। प्रथमसेक्टरे उत्तरप्रदेशः उत्तराखण्डश्च स्थापितौ स्तः, तस्य निरीक्षणं सा स्वयमेव करिष्यति। देशस्य अन्येषां राज्याणां, यत्र पार्टीसङ्गठनं सक्रियम् अस्ति, तानि समानरूपेण द्वयोः सेक्टरयोः विभक्तानि सन्ति। तेषां कृते केन्द्रीयसेक्टरप्रभारिणः नियुक्ताः सन्ति।
मायावती अवदत् यत् सा समये समये तैः सह सम्पर्कं स्थापयिष्यति। सा अवदत् यत् मुख्यसेक्टरप्रभारिणः पदं समाप्तं कृतम् अस्ति। अधुना सेक्टरप्रभारिणः स्वप्रतिवेदनं पार्टीराष्ट्रियउपाध्यक्षाय आनन्दकुमाराय समर्पयिष्यन्ति तथा आनन्दकुमारः तेषां कार्यस्य प्रतिवेदनं तस्यै प्रदास्यति।
‘आकाश आनन्दः श्वशुरस्य सङ्केतानुसारं कार्यं कुर्वन् अस्ति’
मायावत्या स्वभ्रातृपुत्रम् आकाश आनन्दम् आरोपितं यत् सः स्वश्वशुरस्य अशोकसिद्धार्थस्य प्रभावेण कार्यं कुर्वन् अस्ति। स्वस्वास्थ्यसम्बन्धिन्यः प्रचलिताः वार्ताः निराधाराः इति कथयन्ती सा अवदत् यत् सा पूर्णतया स्वस्थाऽस्ति। किन्तु आकाश आनन्दः तस्याः अस्वास्थ्यस्य अफवाहं प्रसारयति। अस्य प्रमाणरूपेण आकाश आनन्देन पार्टीप्रभारिणे आलोककुमाराय कृतं दूरभाषसम्भाषणं सा निर्दिष्टवती। सा अवदत् यत् आकाश आनन्दः आलोककुमारं तस्याः स्वास्थ्यस्य विषये पृष्टवान् तथा ‘बहनजी’ अस्वस्था अस्ति वा न इति ज्ञातुम् इच्छितवान्।
मायावत्याः अनुसारम् आलोककुमारेण उत्तरं दत्तं यत् सा सर्वथा स्वस्थाऽस्ति। ततः आकाश आनन्दः तस्मै एतदपि उक्तवान् यत् ‘बहनजी’ इत्यै न कथ्यतां यत् तेन दूरभाषः कृतः।
बसपाप्रमुखा अवदत् यत् अस्य दूरभाषसम्भाषणस्य पृष्ठतः आकाश आनन्दस्य मनोवृत्तिः शुभा अपि भवितुम् अर्हति, अशुभा अपि। सा आरोपितवती यत् आकाश आनन्दः अधुना स्वविवेकेन कार्यं न करोति, अपितु अशोकसिद्धार्थस्य प्रभावेण कार्यं कुर्वन् अस्ति।
Hindusthan Samachar / Dheeraj Maithani