‘हनुमानांश’ इत्यस्य युवा निर्मात्री अनुप्रियानागर: कैञ्चीधाम इत्यत्र आशीर्वादं प्राप्तवती
नैनीतालम्, १३ सेप्टेम्बरमासः (हि.स.)। देशविदेशयोः चर्चितस्य ‘हनुमानांश’ इति चलचित्रस्य २१-वर्षीया युवा निर्मात्री अनुप्रिया नागर: रविवासरे स्वपरिजनैः सह सहयोगिभिश्च श्रीकैञ्चीधामं गत्वा बाबा नीबकरौरीमहाराजस्य दर्शनं कृत्वा आशीर्वादं प्राप्तवती। अस्
कैंची धाम में बाबा नीब करौरी के दर्शन करने के अवसर पर अनुप्रिया नागर।


नैनीतालम्, १३ सेप्टेम्बरमासः (हि.स.)। देशविदेशयोः चर्चितस्य ‘हनुमानांश’ इति चलचित्रस्य २१-वर्षीया युवा निर्मात्री अनुप्रिया नागर: रविवासरे स्वपरिजनैः सह सहयोगिभिश्च श्रीकैञ्चीधामं गत्वा बाबा नीबकरौरीमहाराजस्य दर्शनं कृत्वा आशीर्वादं प्राप्तवती। अस्मिन् अवसरे लण्डन-बुक-ऑफ-वर्ल्ड-रेकॉर्ड्स-संस्थायाः अन्ताराष्ट्रियाध्यक्षः कार्तिक-पालिवालः अपि तया सह उपस्थितः आसीत्।

अनुप्रियानागरा कैञ्चीधाम्नः बाबा नीबकरौरीमहाराजं च प्रति स्वश्रद्धां प्रकटयन्ती श्रद्धालूनां सुरक्षायै सुविधायै च नैनीताल-आरक्षक-विभागेन उत्तराखण्ड-आरक्षक-विभागेन च कृतानां व्यवस्थाणां प्रशंसां कृतवती। दर्शनानन्तरं सा नैनीतालस्य वरिष्ठपुलिसाधीक्षकं डॉ. मञ्जुनाथ-टी.सी.-महोदयेन सह शिष्टाचारमिलनं कृत्वा चलचित्रस्य सफलता-विषयवस्तु-उद्देश्यादिनां विषये सूचनां प्रदत्तवती।

अस्मिन् अवसरे चलचित्रस्य माध्यमेन भगवत: हनुमतः भक्तिं, श्रद्धां, संस्कारांश्च बाबा नीबकरौरीमहाराजस्य महिमया सह जनं जनं प्रति प्रापयितुं क्रियमाणस्य प्रयासस्य विषये चर्चा अभवत्। वरिष्ठपुलिसाधीक्षकः डॉ. मञ्जुनाथ-टी.सी. अनुप्रियानागरां, तस्याः परिजनान् सहयोगिनश्च शाटिकां परिधाप्य स्मृति-चिह्नं च प्रदाय सम्मानितवान्। सः चलचित्रस्य सफलतायै अनुप्रियायाः उज्ज्वलभविष्याय च शुभकामनाः अयच्छत्।

वरिष्ठ-आरक्षकाधीक्षकः अवदत् यत् कैञ्चीधाम देशविदेशेभ्यः आगच्छतां श्रद्धालूनां श्रद्धायाः प्रमुखं केन्द्रम् अस्ति। अत्र आगच्छतां श्रद्धालूनां पर्यटकाणां च सुरक्षा सुविधा च नैनीताल-आरक्षकविभागस्य प्राथमिकता अस्ति।

Hindusthan Samachar / Divya Ranjan