आचार्यश्रीणां विचाराः शक्तिपीठेभ्यः जन-जनं प्रति प्रापिताः — डॉ. चिन्मय पण्ड्या
हरिद्वारम्, 13 सितंबरमासः (हि.स.)। शान्तिकुञ्जे त्रिदिवसीयस्य न्यासमण्डल-कार्यशालायाः अद्य समापनम् अभवत्। अस्मिन् शिविरे उत्तरप्रदेशस्य, झारखण्डस्य, छत्तीसगढस्य तथा बिहारस्य विभिन्नेभ्यः जनपदेभ्यः आगताः न्यासिनः कार्यकर्तारश्च प्रतिभागं कृतवन्तः।
कार्यशाला को सम्बोधित करते हुए डा. चिन्यम पण्ड्या


हरिद्वारम्, 13 सितंबरमासः (हि.स.)।

शान्तिकुञ्जे त्रिदिवसीयस्य न्यासमण्डल-कार्यशालायाः अद्य समापनम् अभवत्। अस्मिन् शिविरे उत्तरप्रदेशस्य, झारखण्डस्य, छत्तीसगढस्य तथा बिहारस्य विभिन्नेभ्यः जनपदेभ्यः आगताः न्यासिनः कार्यकर्तारश्च प्रतिभागं कृतवन्तः।

समापनसमारोहात् पूर्वं देवसंस्कृतिविश्वविद्यालयस्य उपाध्यक्षः डॉ. चिन्मय पण्ड्या कार्यकर्तृभ्यः संगठनविस्तारस्य मन्त्रं प्रददन् अवदत् यत् अधुना केवलं शान्तिकुञ्जस्य आश्रयेण मिशनस्य विस्तारः सम्भवः नास्ति। प्रत्येकं शक्तिपीठं स्वक्षेत्रे ‘लघु-शान्तिकुञ्जम्’ भूत्वा मिशनस्य दायित्वं स्वीकुर्यात्।

जन्मशताब्दीसमारोहस्य दलनायकः डॉ. पण्ड्या अवदत् यत् शक्तिपीठानि जनजागरणस्य, संस्कारस्य, सेवायाः, साधनायाः तथा युगनिर्माणस्य गतिविधीनां सक्रियकेन्द्राणि भवन्तु। प्रत्येकं शक्तिपीठं स्वक्षेत्रस्य दायित्वं स्वीकरिष्यति, तदैव पं. श्रीरामशर्माचार्यस्य विचाराः गृहे गृहे जनं जनं च प्रति प्रापयितुं शक्यन्ते। सः जन्मशताब्दीवर्षं व्यापकजनजागरणस्य विचारविस्तारस्य च अभियानरूपेण परिणेतुम् आह्वानं कृतवान्।

सः अवदत् यत् वयं यावत् चिन्तयामः इच्छामश्च, गुरुदेवः ततोऽपि अधिकं वर्धयित्वा ददाति। आवश्यकता केवलं निर्मलभावनायाः, प्रबलसंकल्पस्य समर्पितपुरुषार्थस्य च अस्ति।

जनवरीमासे आयोजितस्य जन्मशताब्दीसमारोहस्य सफलतायाः उल्लेखं कुर्वन् सः अवदत् यत् एषा सफलता कस्यचित् एकस्य व्यक्तेः प्रयासस्य परिणामः न, अपितु सम्पूर्णदेशात् आगतानां सहस्रशः कार्यकर्तॄणां सेवाभावनायाः, अनुशासनस्य तथा सामूहिकपुरुषार्थस्य परिणामः अस्ति।

डॉ. पण्ड्या अवदत् यत् जन्मशताब्दी गुरुदेवस्य विचारान् व्यापकसमाजं प्रति प्रापयितुं युगनिर्माणस्य संकल्पाय च नूतनां गतिं प्रदातुं महत्त्वपूर्णम् अवसरम् अस्ति।

कार्यशालायाः समन्वयकेन उक्तं यत् त्रिदिनं यावत् प्रवृत्तायां कार्यशालायां जन्मशताब्दीस्य अनुषङ्गे, संगठनविस्तारे, सेवासाधनायां तथा स्थानीयस्तरे मिशनस्य गतिविधीनां गतिवर्धनसम्बद्धेषु विषयेषु मन्थनम् अभवत्।

कार्यशालायाः समापनावसरे न्यासिभिः कार्यकर्तृभिश्च सेवा-साधना-संगठनविस्तारस्य संकल्पं स्वीकृत्य स्व-स्वक्षेत्राणि प्रति प्रस्थानं कृतम्।

Hindusthan Samachar / Dheeraj Maithani