हरतालिका-तीजापर्वणि सामवेदीब्राह्मणैः गङ्गातटे उपाकर्म
हरिद्वारम्, १३ सेप्टेम्बरमासः (हि.स.)। हरतालिकातीजार्वणः अवसरे सामवेदी-ब्राह्मणानाम् उपाकर्मपर्व धार्मिक-विधिविधानैः वैदिकपरम्पराभिश्च सम्पन्नम्। भाद्रपदशुक्लपक्षस्य तृतीयायां तिथौ हस्तनक्षत्रे च सामवेदीब्राह्मणैः गङ्गातटे हेमाद्रिस्नानं कृतम्। ततः
उपाकर्म करते हुए ब्राह्मण


हरिद्वारम्, १३ सेप्टेम्बरमासः (हि.स.)। हरतालिकातीजार्वणः अवसरे सामवेदी-ब्राह्मणानाम् उपाकर्मपर्व धार्मिक-विधिविधानैः वैदिकपरम्पराभिश्च सम्पन्नम्। भाद्रपदशुक्लपक्षस्य तृतीयायां तिथौ हस्तनक्षत्रे च सामवेदीब्राह्मणैः गङ्गातटे हेमाद्रिस्नानं कृतम्। ततः ऋषितर्पणसहिताः विविधानि धार्मिका-नुष्ठानानि सम्पन्नानि तथा मन्त्रौच्चारणस्य मध्ये नूतनं यज्ञोपवीतं धृतम्।

हरतालिकापर्वणः अवसरे सामवेदीब्राह्मणैः श्रद्धालुभिश्च गङ्गास्नानं कृत्वा विधिवत् पूजार्चना कृता। पण्डितमनोजत्रिपाठिनः नेतृत्वे वैदिकमन्त्रौच्चारणस्य मध्ये ऋषितर्पणं कृतम्। यज्ञोपवीतस्य संस्कारं कृत्वा निर्धारितविध्यनुसारं नवीनं यज्ञोपवीतं धृतम्। पूजार्चनायाः समये भगवतः प्रार्थनां कृत्वा परिवारे सुखस्य, शान्तेः, समृद्धेः सौभाग्यस्य च कामना कृता।

पण्डितदेवेन्द्रशुक्लशास्त्रिणः कथनानुसारं सनातनपरम्परायां विभिन्नवेदान् अनुसरन्तः ब्राह्मणानाम् उपाकर्मणः तिथिः परम्परा च पृथक् पृथक् निर्धारितास्ति। तस्य अनुसारं यजुर्वेदीब्राह्मणानाम् उपाकर्म श्रावणमासस्य शुक्लपक्षीयायां पूर्णिमायां, अर्थात् रक्षाबन्धनपर्वणि, भवति। ऋग्वेदीब्राह्मणानाम् उपाकर्म तु श्रावणशुक्लपक्षस्य श्रवणनक्षत्रे सम्पन्नं भवति। सामवेदीब्राह्मणाः तु भाद्रपद-शुक्लपक्षस्य तृतीयायां तिथौ, यां हरतालिकातीजरूपेण अपि ज्ञायते, हस्तनक्षत्रे उपाकर्म कुर्वन्ति।

तेन उक्तं यत् उपाकर्मणः समये सामवेदीयपरम्परायां निर्धारिततिथौ गङ्गास्नानस्य धार्मिकानुष्ठानानां च अनन्तरं नवीनयज्ञोपवीतधारणस्य विशेषं महत्त्वम् अस्ति। ततः गृहेषु विविध-प्रकारकाणि पक्वान्नानि निर्मीयन्ते तथा परिवारजनैः सह पर्व आचर्यते।

तेन उक्तं यत् ऋग्वेदस्य, यजुर्वेदस्य सामवेदस्य च आधारेण सनातनपरम्परायां विविधाः धार्मिकपूजापद्धतयः कर्म-काण्डानि च निर्धारितानि सन्ति। प्रत्येकस्य वेदस्य स्वकीया विशिष्टा परम्परा अनुष्ठानानि च सन्ति, यानि सम्बन्धितसमुदायैः वंशेभ्यः निरन्तरं पालितानि आगच्छन्ति।

Hindusthan Samachar / Divya Ranjan